________________ : 106 : (प्रकाशः ) रम्याम्-मनोरमाम् , अनुपमतमाम्-अतुलतमाम् , इमाम्-पुरः प्रदर्यमाणाम् , वाटपद्रीम्अभिख्याम्-वटपद्रेत्याख्याम् , पुरीमितिभावः, दृष्ट्वा-निरीक्ष्य, मनसि-अन्तःकरणे, शङ्काम्-अनिष्टसम्भवनाम् , 'शङ्काऽनिष्टोत्प्रेक्षणं स्यात्' इति हैमः। दधती-धारयन्ती, तोयराशौ-जलनिधौ, ममज-निमग्नाऽभूत् , वस्वोकसारा च-अलका तु, इन्द्रपुरी पुनः इतियावत् , ' अलका वस्वोकसारा' इति हैमः / वसुयुक्तानि ओकांसि सारमस्या वस्वोकसारा, पृषोदरादित्वात् सलोपः, दग्भ्यः अतीते-यत्र नास्ति नयनविषयता तत्र, अगोचरे लोचनानामिति यावत् , पदे-स्थाने, वसति-वर्तते,अपमदा-गतसौन्दर्याभिमाना, सा-प्रसिद्धा, भोगावती-नागनगरी, 'तेषां भोगावती पुरी' इति हैमः / भोगाः सन्त्यस्यां भोगावती 'अनजिरादि-'1३।२।७८। इति मतौ दीर्घता। अपिपुनः, पातालम्-अधोलोकम् , प्राविशत्-अविविशत् , प्रयातेतियावत् / / 80 // . (81) तत्रत्यमण्डपं वर्णयति मध्य इति--- मध्येऽस्त्यत्र प्रचुरसुषमो मण्डपोऽत्यन्ततुङ्ग-- स्तत्र स्थित्वा चतसृषु दिशा-स्वीक्षणीयं त्वयेन्दो!! द्रष्टासि द्राक् श्रियमनुपमा-मस्य विष्वक् पुरस्य, रम्यं ह्येत-च्छुचिरुचिचतु-रिचैत्यानुकारम् / / 81 / / ( अन्वयः ) अत्र मध्ये प्रचुरसुषमः अत्यन्ततुङ्गः मण्डपः अस्ति इन्दो ! त्वया तत्र स्थित्वा चतसृषु दिशासु ईक्षणीयम् ,