________________ : 105 : शमनककुभि-यमाशायाम् , दक्षिणस्यां दिशीतियावत् , 'यमराजः श्राद्धदेवः शमनो महिषध्वजः ' इति हैमः / स हि दक्षिणाधिपतिः, प्रस्थितस्य-कृतप्रयाणस्य, ते-भवतः, मनसि-स्वान्ते, अपरम्अन्यत् , लाटदेशस्य पुण्ड्रम्-तन्नामजनपदस्य वरतिलकम् , लाटललाटपट्टे तिलकाकारमितियावत् , ' तिलके तमालपत्रचित्रपुण्ड्विशेषका' इति हैमः / स्वर्गाकारम्-अमरनिकेतनकल्पम् ,नगरम्पुरम् , दर्श दर्शम्-दृष्ट्वा दृष्ट्वा, परमप्रीतिः-अतिशयाहादः, आपत्स्यते-उद्भविष्यति, यत्-यस्माद्धेतोः, तत्र-तन्नगरे, नानालक्ष्मीरुचिरवपुषाम्-विविधश्रीसुन्दरशरीराणाम् , जनानाम्मनुजानाम् , वासः-निवसनम् , वर्तते इति शेषः, श्रीदर्शनेन श्रीमान् प्रसन्नो भवति यतो हि भवतो भगिनी सा, तत्र पुरे तस्या दर्शनं ते भावीत्याशयः // 79 // (80) सर्वतोऽतिरिच्यास्तेऽदः पुरमित्याह लङ्केतिलङ्का शङ्कां मनसि दधतीं तोयराशौ ममज्जाऽतीते दृग्भ्यो वसति च पदे हन्त ! वस्वोकसारा // पातालं प्रा-विशदपमदा सापि भोगावतीमां, दृष्ट्वा रम्या-मनुपमतमां वाटपद्रीमभिख्याम् // 8 // ( अन्वयः) रम्याम् अनुपमतमाम् इमां वाटपद्रीम् अभिख्यां दृष्ट्रा मनसि शङ्कां दधती लङ्का तोयराशी ममज, वस्वोकसारा च हन्त ! दृग्भ्यः अतीते पदे वसति, अपमदा सा भोगावती अपि पातालं प्राविशत् // 80 //