________________ : 104 : लितकरैः-आन्दोलितकिरणैः, तरल + किप् + क्तः-तरलितः, यद्वा भास्वरभानुभिः, तारकादिभ्य इतः ' तरलो भास्वरे चले " इत्यनेकार्थः, सर्वतः-परितः, अर्थम्-पदार्थम् , व्यञ्जयन्-प्रकटयन् , तम्-दीपकदम्बम् , अवश्यम्-नूनम् , वैलक्ष्यम्-बीडाम् , प्रापयिष्यति-गमयिष्यति, यथा पौराणिकः कतिपयाज्ञजनानामन्तिके शास्त्रपदार्थान् यथा तथा ' देव्युवाचवत् ' प्रकटयति निशि तथा दीपसमूहोऽपि परं तत्राकस्मात्कस्यचन प्रामाणिकस्यागमने स विलक्षो भूत्वानुभवति लज्जा तथा भोः रजनीनाथ ! सहसा तत्र श्रीमदुदयेन दीपनिकरोऽपि निस्तेजः स्थास्यतीतिभावः / दृष्टान्तालङ्कारः // 78 // (79) राजनगरतः प्रयाणे नवयोजनदूरस्थवटपद्रपुरदर्शनं प्रमोद जनयिष्यति ते तदेवाह तस्मादिति तस्माद्रगङ्गा-च्छमनककुभि प्रस्थितस्यान्तरा ते, स्वर्गाकारं नगरमपरं लाटदेशस्य पुण्ड्रम् / / दर्श दर्श मनसि परम-प्रीतिरापत्स्यते यनान्नालक्ष्मी-रुचिरवपुषां तत्र वासो जनानाम् // 79 // (अन्वयः) तस्मात् द्रङ्गात् शमनककुभि प्रस्थितस्य ते मनसि अपरं लाटदेशस्य पुण्डू स्वर्गाकारं नगरं दर्श दर्श परमप्रीतिः आपत्स्यते यत् तत्र नानालक्ष्मीरुचिरवपुषां जनानां वासः (अस्ति ) // 79 // (प्रकाशः) तस्मात् द्रङ्गात्-राजनगराभिधानान्नगरात् ,