________________ ज्योतिषाम्-नानाप्रकाररोचिषाम् ,सन्निपातः-सम्मेलनम् , भवतुजायताम् // 77 // (78 ) चन्द्रमसोऽर्थव्यञ्जकत्वं वर्णयति तत्रेतितत्र प्रत्या-पणमनुगृहं दीपकानां कदम्बे, स्तोकं पौरा-णिक इव निशि व्यञ्जयत्यर्थजातम् // गत्वा प्रामाणिक इव महान् व्यञ्जयन् सर्वतोऽर्थ, लक्ष्यं तं तरलितकरैः प्रापयिष्यत्यवश्यम् / / 78 // ( अन्वयः ) तत्र प्रत्यापणम् अनुगृहं निशि पौराणिक इव स्तोकम् अर्थजातं दीपकानां कदम्बे व्यञ्जयति प्रामाणिक इव महान् / त्वं ) गत्वा तरलितकरैः सर्वतः अर्थ व्यञ्जयन् तम अवश्यं वैलक्ष्यं प्रापयिष्यति // 78 // . ( प्रकाशः ) तत्र-राजनगरे, प्रत्यापणम्-प्रत्येकविपणौ, एत्य पणायन्त्यस्मिन् आपणः ‘गोचरसंवर-' / 5 / 3 / 131 // इति घः, अनुगृहम्-गेहे गेहे, उभयत्र ' योग्यतावीप्सा-' / 3 / 1 / 40 / इत्यव्ययीभावः, निशि-तमस्विन्याम् , पौराणिक इव-यथा पुराणकथाकथके, पुराणज्ञ इति यावत् , पुराणं वेत्ति पौराणिकः 'तद्वेत्त्यधीते ।६।२।११७।इतीकण , स्तोकम्-किञ्चित् किञ्चित् , अर्थजातम्--पदार्थप्रकरम् , दीपकानां कदम्बे--प्रदीपानां निकुरम्बे, व्यञ्जयति-प्रकाशयति सति, प्रामाणिक इवप्रमाणप्रदर्शकवत् , महान्-प्रबलः श्रीमान् , गत्वा-तत्रैत्य, तर