________________ : 102 : सर्व दृष्टम्-निखिलमवलोकितम् , वदति-कथयति, ‘स्थालीपुलाकन्यायेन' नहि सर्वावलोकनं सम्भवत्यपि तु एकदेशदर्शनेनैव सर्वस्य परिचयो जायते / अर्थान्तरन्यासः // 76 / / (77) तत्र त्वद्गमनेन ज्योतिषां सम्मेलनं भविष्यतीत्याह रत्नेतिरत्नज्योतिः कनकरजत-ज्योतिरसावलीषु, स्त्रीपुंसाङ्गा-भरणतरुण-ज्योतिरत्र प्रदोषे / / दीपश्रेणी-प्रकटितपटु-ज्योतिरिन्दो ! त्वदीयज्योतिर्योगे भवतु विविध-ज्योतिषां सन्निपातः।।७७॥ ( अन्वयः ) अत्र रत्नज्योतिः अट्टावलीषु कनकरजतज्योतिः स्त्रीपुंसाङ्गाभरणतरुणज्योतिः प्रदोषे दीपश्रेणीप्रकटितपटुज्योतिः ( सन्ति ) इन्दो ! त्वदीयज्योतिर्योगे विविधज्योतिषां सन्नि पातः भवतु // 77 // (प्रकाशः) अत्र-पुरेऽस्मिन् , रत्नज्योतिः-मणिप्रभा, अट्टावलीषु-हट्टततिषु, कनकरजतज्योतिः-चामीकररूप्यरुचिः, स्त्रीपुंसाङ्गाभरणतरुणज्योतिः--नरनारीदेहावयवस्थिता भूषणनवीनच्छविच्छटा, प्रदोषे-सायाहे, रजनीमुख इतियावत् , 'प्रदोषो यामिनीमुख' मिति हैमः / प्रारब्धा दोषा रात्रिरस्मिन्निति प्रदोषः, दीपश्रेणिप्रकटितपटुज्योतिः-प्रदीपतत्याविष्कृतमनोज्ञद्यतिः, एताः कान्तयस्त्वत्र सन्त्येव परं विशेषेण, इन्दो !हिमधुते !, - त्वदीयज्योतियोंगे-श्रीमत्कान्तिसमागमे, विविध