________________ .: 101 (76) चिरदर्शनीयस्यास्य लधुदर्शनायैकदेशावलोकनार्थमाह अस्येतिअस्य व्यत्या निशमनमहो ! वर्षलक्षानुपाति, सामान्येना-मृतकर ! तत-श्चैकदेशो विलोक्यः॥ तस्मिन् दृष्टे निखिलमपि त-द्दष्टमेवावधेयं, सर्व दृष्टं वदति हि जनो वर्णिकादर्शनेन // 76 / / ( अन्धयः ) अमृतकर ! अहो ! अस्य व्यक्त्या निशमनं वर्षलक्षानुपाति, ततश्च एकदेशः सामान्येन विलोक्यः तस्मिन् दृष्ट तत् निखिलमपि दृष्टमेव अवधेयं हि जनः वर्णिकादर्शनेन सर्व दृष्टं वदति // 76 // (प्रकाशः ) अमृतकर !-पीयूषपाद !, अहो-अद्भुतम् , अस्य-नगरस्यास्य, व्यक्त्या-पृथक्पृथकस्थलमादाय, विशेषादितियावत्, निशमनम्-श्रवणमपि, . वर्षलक्षानुपाति-लक्षशरदापेक्षि, यदि कश्चिद्विस्तरतोऽस्य 'नगरस्य वर्णनं शृणुयात्तदा शरदां शतसहस्रसम्मितं समयमपेक्षेतेत्याशयः, ततश्च-एवं हि स्थिते, एकदेशः-कश्चिदेकविभागः, सामान्येन-समष्टिरूपेण, न तु व्यक्त्या, विलोक्यः-निरीक्षणीयः, त्वयेति शेषः, तस्मिन् दृष्टे-अवलोकिते तद्विभागविशेषे, तत्-पुरमेतत् , निखिलमपिसम्पूर्णं यावत् , दृष्टमेव-खलु निरीक्षितम् , अवधेयम्-विज्ञेयम् , हि-यतः, जनः-लोकः, वर्णिकादर्शनेन-एकदेशावलोकनेन,