________________ : 100 : मा ज्ञासीस्त्वं खपितुरुदधे-हन्त सर्वस्वमात्तं, द्रङ्गो ह्येष प्रकृतिगुणतो ज्येष्ठरत्नाकरोऽस्ति // 75|| ( अन्वयः ) ( अत्र ) प्रतिपदं मुक्तापुञ्जान उरून् रत्नराशीन् प्रवालाङ्क्रान् शङ्खान् वरान् मृगमदसरान् भूयः वीक्ष्य त्वं हन्त ! स्वपितुः उदधेः सर्वस्वम् ( अनेन ) आत्तम् (इति) मा ज्ञासीः, हि एष द्रङ्गः प्रकृतिगुणतः ज्येष्ठरत्नाकरः अस्ति // 5 // (प्रकाशः ) अत्र नगरे प्रतिपदम्-पदे पदे, स्थाने स्थान इति यावत् , मुक्तापुञ्जान्-शुक्तिजसमूहान् , उरून् रत्नराशीन्-महतो मणिसङ्घातान् , प्रवालाङ्क्रान्-विद्रुमाङ्कुरान् , शडान्-कम्बून् , शाम्यति शङ्खः पुंक्लीबलिङ्गः ‘शमिमनिभ्याम्-' ( उणा० 84 ) इति खः, शं सुखं खनति, श्रेयो जनयतीति वा 'कचित् ' / 5 / 1 / 171 / इति डः, वरान-श्रेष्ठान् , मृगमदसरान्-मृगमदः-कस्तूरिका तं सरति-अनुसरतीति मृगमदसरस्तान्, कस्तूरिकाकल्पाम्बरादिगन्धद्रव्यनिकरान् , अम्बरप्रमुखसद्गन्धिपदार्थविशेषाणां जनिस्थानं वारांनिधिरिति प्रसिद्धमेव, भूयः-प्रभूतम् , अतः परं वराँश्चेत्यस्य प्रकृतेऽवग्रहमाकल्प्य अवराँश्चेति कृत्वा अवराँश्च भूयः-अन्यानपि प्रचुरपदार्थानित्यर्थोऽप्यवसेयः, वीक्ष्य-नितरामालोक्य, त्वम्-श्रीमान् , हन्त !-हा, खेदज्ञापकमव्ययम्, स्वपितुः-निजजनकस्य, उदधेः-रत्नाकरस्य, सर्वस्वम्-वसुमात्रम् , निखिलवित्तमितियावत् , अनेन नगरेण आत्तम्-गृहीतम्, इति मा ज्ञासी:-न ह्यवगच्छेः, हि-यतः, एष द्रङ्ग:-इदं हि नगरम् , प्रकृतिगुणतः-स्वभावतः, निसर्गादेव, ज्येष्ठरत्नाकरोऽस्ति-उत्कृष्टमणिखानिर्वर्तते / / 75 //