________________ : 99 : धामैकैकं पृथुतरमुरु-ग्रामतुल्यं तदस्य, माहात्म्यं का कथयितुमलं प्राप्तवाग्वैभवोऽपि // 74|| ( अन्वयः ) उडुपते ! अस्य एकैका पाटकः ध्रुवम् अन्यैः पुराणां वृन्दैः तुल्यः शाखापुराणि जनपदसमान्येव, एकैकं पृथुतरं धाम उरुग्रामतुल्यं तत् अस्य माहात्म्य प्राप्तवाग्वैभवोऽपि कः कथयितुम् अलम् // 74 // ( प्रकाशः ) उडुपते !-नक्षत्रनाथ !, अस्य-राजनगरस्य, एकैकः-प्रत्येकः, पाटकः-प्रतोलिकाविशेषः, ध्रुवम्-निश्चयेन, अन्यैः-अपरैः, पुराणाम्-पत्तनानाम् , वृन्दैः-समूहैः, तुल्य:समानः, शाखापुराणि-उपपुराणि, शाखासमीपवर्ति पुरं शाखापुरम् , यदाह ' शाखा वेदिविभागे स्यात् , पादपाङ्गान्तिकेऽपि च' 'शाखापुरं तूपपुरम् ' इति हैमः / जनपदसमान्येव-राष्ट्रकल्पानि खलु, एकैकम्-प्रत्येकम् , पृथुतरं धाम-अतिविस्तीर्णं वेश्म, उस्यामतुल्यम्-बृहन्निक्सथसन्निभम् , तत्-एवं स्थिते, अस्यराजनगरस्यास्य, माहात्म्यम्-गौरवम् ,प्राप्तवाग्वैभवोऽपि-अधिगतवचनपाटवैश्वर्योऽपि, कः-को हि जनः, कथयितुम् अलम्वर्णयितुं समर्थः, न कश्चिदपीति भावः। अलङ्कतिरतिशयोक्तिः॥७४॥ (75) अत्र रत्ननिकरमालोक्य मत्पितुरनेन सर्वस्वं विलण्टितमिति अमो न विधातव्य इत्याह मुक्तेति मुक्तापुञ्जान् प्रतिपदमुरून रत्नराशीन् प्रवालाsकराञ्छङ्खान् मृगमदसरान् वीक्ष्य भूयो वराँश्च //