________________ :: 98 : कोटिप्रमितधनाधिप इति सूचको ध्वजो यस्य सदनोपरि वर्तते स कोटिध्वजः, तेषाम् , प्रभूतकोटीश्वराणाम् , गेहे गेहे-प्रतिहर्म्यम् , केतन्ति निवसन्ति अत्र गेहम् 'कितो गे च' ( उणा० 587 ) इति हः / बहुविधधनैः-नानाप्रकारद्रविणैः ' द्रविणं धनम्' इति हैमः, क्लुप्तनानास्वरूपा-आसादितानेकनिजरूपा, हारार्धहारकटककेयूरककणकुण्डलकटिसूत्रमुद्रिकामुद्रादिनानारूपेतियावत्, लक्ष्मी:-अब्धिसुता, सक्तम्-सर्वदा, आरमति-विलसति, 'व्याङ्गपरे रमः' / 3 / 3 / 105 // इति, परस्मैपदम् , सुभग!शुभैश्वर्यशालिन् ! प्रियेतियावत् , एनाश्च-एतान्तु, 'त्यदामेन देतदः-१२।१।३३। इत्येनदादेशः, त्यक्तचाश्चल्यदोषाम्-दूरीकृतास्थैर्यावगुणाम् , भगिनीम्-स्वसारम् , दृष्ट्वा-समीक्ष्य, त्वम्श्रीमान् , नियतम्-निश्चितम् , चिन्तातीतम्-मनस्तापानुस्यूतविचारणा चिन्ता तया अतीतम् , चिन्तारहितम् , विचारागोचरमिति भावः, अतुलम्-निःसीमम् , अनुपम मितियावत् , प्रमोदम्-आनन्दम् , प्राप्स्यसि-अधिगमिष्यसि, एतावत्समयं त्वं सचिन्त आसीः यत् कुटुम्बे मे सर्वेऽपि सगुणाः स्थिराश्च परमियं सहोदरैव चञ्चलतरा किन्त्वत्र तां निश्चपलामालोक्य निश्चिन्तीभूयानन्दमनुभविष्यसीति भावः // 73 // (74) तस्य नगरस्य विशालतां वर्णयति एकैक इतिएकैकोऽस्य ध्रुवमुडुपते ! पाटकोऽन्यः पुराणां, वृन्दैस्तुल्यो जनपदसमा-न्येव शाखापुराणि / /