________________ : 97 : नक्षत्ररूपा इत्यपि,भूरिरत्नप्रकारा:-प्रचुरमाणिक्यादिहीरकविशेषाः, तव करैः-श्रीमतः किरणहस्तैः,सुष्टु-सम्यकू,संयोगम्-सम्बन्धम् , एत्य-प्राप्य, प्राप्तोल्लासा इव-अधिगताहादाः किमु, प्रकाशमुपेता इवेतियावत् , नवरुचः-अभिनवकान्तयः, दर्शनीयाः भविष्यन्तिईक्षणीयस्थितिमधिगमिष्यन्ति, हि-यतः, चिरात्-दीर्घसमयेन, बन्धुवाहानुषङ्ग:--स्वजनजनभुजसम्बन्धः, 'स्वजनो बन्धुः' 'भुजो बाहुः प्रवेष्टोदोर्वाहाः' इति हैमः, उल्लासम्-आहादम् , प्रथयतिविस्तारयति // 72 // (73) तत्र राजनगरे ते भगिनी भगवती श्रीनिश्चलीभूय विलसतीति त्वया सानन्दं सा दृष्टव्येत्याह-लक्ष्मीरिति लक्ष्मीस्तत्रा-रमति सततं भूरिकोटिध्वजानां, गेहे गेहे बहुविधधनैः क्लुप्तनानास्वरूपा // .. दृष्ट्वा चैनां सुभग ! भगिनीं त्यक्तचाश्चल्यदोषां, चिन्तातीतं नियतमतुलं प्राप्स्यसि त्वं प्रमोदम् // 73 (अन्वयः ) तत्र भूरिकोटिध्वजानां गेहे गेहे बहुविधधनैः क्लप्तनानास्वरूपा लक्ष्मीः सततम् आरमति, सुभग! एनाच त्यतचाञ्चल्यदोषां भगिनीं दृष्ट्वा त्वं नियतं चिन्तातीतम् अतुलं प्रमोदं प्राप्स्यसि // 73 // (प्रकाशः) तत्र-राजनगरे, भूरिकोटिध्वजानाम्-अयं