________________ : 96 : बलाकृष्टसमीचीनवसनाम् , तासाम्-नवोढनायिकानाम् ,प्रकाशम् - उद्योतम् , माकार्षीः-नो विदध्याः, यतो हि, त्वदंशून्-भवद्भानून्, संवरितुम्-पिधातुम् , आच्छादायितुमितियावत् , अनलंभूष्णवःअसमर्थाः, भवतीत्येवं शीलो भूष्णुः / भूजेः ष्णुक्' / 5 / 2 / 30 / इति ष्णुक्, मौग्ध्यादेव-अकौशल्यात्खलु, अनवगतधवाक्ष्यब्जसंवृत्युपायाः-अविदितदयितनयनकमलावरणप्रकाराः, एतादृशप्रसङ्गे कराभ्यां नाथनयननिमीलनं विधातव्यमित्यनभिज्ञाः, किं कुर्युःकिं विदध्युः, किंकर्तव्यविमूढा भवेयुरितियावत् , तासामुपरि दयां विधाय अथ च तादृशं तमस्कृत्यं तमस्येवोचितमिति विचिन्त्य तत्र प्रकाशः न कर्तव्य इति भावः / / 70-71 // (72) तत्राद्वानां ततिषु निहिता भूरिरत्नप्रकारास्तारास्तारा-धव ! तव करैः सुष्टु संयोगमेत्य // प्राप्तोल्लासा इव नवरुचो दर्शनीया भविष्यन्त्युल्लासंहि प्रथयति चिरा-बन्धुवाहानुषङ्गाः // 72 / / ( अन्वयः ) ताराधव ! तत्र अट्टानां ततिषु निहिताः ताराः भूरिरत्नप्रकाराः तप करैः सुष्टुसंयोगम् एत्य प्राप्तोल्लासा इव नवरुचः दर्शनीया भविष्यन्ति हि चिराद् बन्धुवाहानुषङ्गः उल्लासं प्रथयति // 72 // (प्रकाशः ) ताराधव !-नक्षत्रनाथ !, तत्र-राजनगरे, अट्टानां ततिषु-हट्टावलिषु, अट्टो हट्टाट्टालकयोः' इत्यनेकार्थसङ्ग्रहः निहिताः-स्थापिताः, तारा:-मनोहराः, निर्मला. इतियावत् ,