________________ हवें प्रविष्टाः च. प्रेयसा प्रणयचटुभिः शय्योत्सङ्गं प्रापिताः, बीडोद्रेकात् कर्णोत्पलेन गृहमणिम् उपाहत्य तमसि कान्तोपान्ते कथमपि आसते, त्वं जालमार्गप्रविष्टैः तरुणकिरणैः कान्तप्रसभहृतसच्चीवराणां तासां प्रकाश माकार्षीः, ( यत् ) त्वदंशून् संवरितुम् अनलं-भूष्णवः मौग्ध्यादेव अनवगतधवाक्ष्यजसंवृ. त्युपायाः ताः किं कुर्युः // 70-71 // (प्रकाशः) याः विमुग्धाः -याः-'प्रथमावतीर्णयौवन-मदनविकारा रतौ वामा; कथिता मृदुश्च माने, समधिकलज्जावती मुग्धा' - // (सा. द.) इत्युक्तस्वरूपा नवोढाः, प्रियसहचरीप्रेरणाभि:स्निग्धसखीप्रेरकोक्तिभिः, क्रीडाहर्म्यम्-केलिसदनम् , विलासनिवास इतियावत् , प्रविष्टाः-अन्तर्गताः, च-पुनः, प्रेयसा-प्रियतमेन, प्रणयचटुभिः-स्नेहलोक्तिभिः, प्रेमपरिपूर्णवचनैः, 'चटुचाटुप्रियप्रायम्' इति हैमः, चटुशब्दस्य प्रियवचसि शक्तत्वेऽपि प्रणयेति विशेषणसन्निधानाद्वचनमात्रतावसेया, शय्योत्सङ्गम्-शयनीयकोडम् , तल्पान्तरिति यावत्, प्रापिताः-नीताः, बीडोद्रेकात्लज्जाधिक्यात् , कर्णोत्पलेन-श्रवणस्थिससरसिजेन, गृहमणिम्दीपम् , 'दीपः प्रदीपः कजलध्वजः / स्नेहप्रियो गृहमणिः' इति हैमः। उपाहत्य-प्रहत्य, निर्वाप्येतियावत् ,तमसि-अन्धकारे, कान्तोपान्तेस्वामिसमीपे,निजनाथनिकट इति यावत् , कथमपि-केनापि प्रकारेण, आसते-उपविशन्ति, वर्तन्त इति यावत् , त्वम्-श्रीमान् , जालमागप्रविष्टैः-गवाक्षाध्वनाऽन्तर्गतैः, 'वातायनो गवाक्षश्च जालके' इति हैमः, तरुणकिरणैः-युवमयूखैः, पूर्णपादैरितियावत् , कान्तप्रसभहृतसचीवराणाम्-कान्तेन प्रसभं हृतं सच्चीवरं यासां तासाम् , दयित