________________ : 93 : पत्कृच्छम्-स्वल्पमपि दुःखम् , क्लेशलेशमपि, कृन्ततीति कृच्छ्म्‘कृतेः क्रूकृच्छौ च ' ( उणा० 395) इतिरः, 'दुःखं... कृच्छं कष्टम् ' इति हैमः, न सहन्ते-न क्षमन्ते, सोढुमसमर्था भवन्तीति यावत् , स्वभावोक्तिः // 68 // (69) अथ सूक्तत्रयेण शृङ्गाररसानुकूलतया तदप्रतिकूलभावेन च प्रवर्तनार्थमाह शशिनम् आरूढानामित्यादिआरूढानां भवनवलभी गोर्जरीणां त्वदीक्षाफुल्लाक्षीणां प्रियतमकर-न्यस्तहस्तोत्पलानाम् / पश्यन्तीनां नगरमभिंतोऽ-लङ्कतं चन्द्रिकाभिबन्धो निर्वा-पय निजकरैः सुष्ठु दृक्करवाणि // 69 / / ( अन्वयः ) बन्धो ! भवनवलभीम् आरूढानां त्वदीक्षाफुल्लाक्षीणां प्रियतमकरन्यस्तहस्तोत्पलानां चन्द्रिकाभिः अलङ्कृतं नगरम् अभितः पश्यन्तीनां गौर्जरीणां दृक्करवाणि निजकरैः सुष्टु निर्वाषय // 69 // ( प्रकाशः ) बन्धो !-सुहृत् !, भवनवलभीम्-गृहगोपानसीम् , ' गोपानसी तु वलभी ' इत्यमरः, आरूढानाम्-कृतारोहपानाम् , उच्चैः स्थितानामितियावत्, नहि गेहे गेहे स्युश्चन्द्रशाला इति चन्द्रदर्शनार्थ छदि स्थितये संस्थापितकाष्ठमारोहन्ति तद्रसिका इत्याशयः, त्वदीक्षाफुल्लाक्षीणाम्-श्रीमद्दर्शनविकसितनयना. नाम् , कदोदेष्यतीन्दुः (2) इतीच्छया सम्पाद्य लोचनव्याकोश