________________ : 92 : विप्रयुक्ताः अश्रुभिश्च क्लिन्ननेत्राः चक्राह्वानां हृदयदयिताः पादैः अरतिं मास्मोपनयः प्रसह्य ए: हि कण्ठेप्राणाः * विरहिणः ईषत् कृच्छं न सहन्ते // 68 // (प्रकाशः) अस्याश्च नद्याः-पुरोवर्तिन्याः पयोवाहिन्यास्तु, उभयोः कूलयोः-द्वयोस्तीरयोः, उभयस्मिँस्तट इति यावत् , सुचिरम्-दीर्घकालात् , सनिविष्टाः-उषिताः, संस्थिता इति यावत् , विप्रयुक्ताः-विरहमापन्नाः, निजनाथैस्सहेति शेषः, अश्रुभिश्च क्लिन्ननेत्राः-नयननीरप्लावितेक्षणाः, विरहविधुरताऽस्रोद्गमे हेतुः / चक्राह्वानाम्-रथङ्गाह्वानाम् , ' चक्रवाको रथाङ्गाह्वः' इति हैमः / हृदयदयिताः-प्राणप्रियाः, मध्यमपदलोपिसमासोऽत्र, मनोवल्लभाश्चक्रवाकीः, पादैः-करैः, रश्मिभिरिति यावत् , अरतिम्उद्वेगम् , ' स्वाभीष्टवस्त्वलाभेन, चेतसो याऽनवस्थितिः / अरतिः सा- ' इत्येवंरूपमिष्टवियोगजन्यमनोव्याकुलीभावमितिभावः, एते हि पक्षिणो द्वन्द्वचरास्तथा च कामोद्दीपकत्वत्किरणसन्निपाते स्वस्वामिसम्बन्धमपेक्षन्ते परं नहि रजनी यावत् परस्परमीलनं भवति तेषां सन्बन्धे आदित्योदय एव निदानं तथा स्वभावत्वादिति स्पष्टमरतेः संभावनेत्याशयः / मास्मोपनयः-न प्रापय, ' सस्मे ह्यस्तनी च' 15 / 4 / 40 / इति शस्तनी, प्रसह्य ए:-क्षान्तिपूर्वम् , याहि, यद्वा प्रसारितिपादैरित्यस्य विशेषणविधयान्वेयं तथा च प्रकर्षण सदैः सहनीयैः कष्टानुभवनीयरित्यर्थः, हि-यतः, कण्टेंप्राणाःकण्ठे प्राणः येषान्ते ' अमूर्धमस्तकात्- '. / 3 / 2 / 22 / इति सप्तम्या लुब् न, गलावरुद्धश्वासाः, विरहिणः-विप्रयोगमधिगताः,