________________ / 3 / 1 / 97) इतिसमासः, प्रक्षालितप्रस्थापितैः, विततैः-विस्तृतैः, अम्बरैः-वरवसनैः, सद्वेषा इव-नेपथ्यविभूषिता किम् , क्वापि-कस्मिँश्चित्प्रदेशे तु,मुक्ताशुक्त्यावलिरुचितरैः-मौक्तिकतज्जनकशुक्तिपतिप्रभूतप्रभाभिः, अलङ्कारिता इव-मण्डिता इव,अयमाशयस्तावतरङ्गिण्या अस्यास्तीरे स्थलविशेषे सन्ति मनोरमवनखण्डानि प्रदेशे कचन क्रीडन्ति सुरसुन्दरीसदृशसुन्दर्यः साकं स्वकीयस्नेहलरमणैः देशे कापि रजकप्रमुखैरंशुकानि प्रक्षाल्य शुष्कीकरणार्थं प्रसारितानि राजन्ते, कुत्रचन शुक्तिनिर्गतानि शुक्तिजानि शुक्तिदलानि एवमेव निपतितानि शोभन्ते मण्डनमिवेति / उत्प्रेक्षा // 66 // (67) . प्रीणात्येषाऽ-खिलपुरजनान् सत्पयःपानदानादुत्सङ्गस्थान रमयति च तान् केलिलीलाविलोलान् / दूरादालि-ङ्गति च विततै-/चिहस्तैः पुनीते, प्रतानस्याः कथमभिहिता नेयमादौ नगाः // 67 // ( अन्वयः ) एषा अखिलपुरजनान् सत्पयःपानदानात् प्रीणाति, च केलिलीलाविलोलान् उत्सङ्गस्थान् तान् रमयति, ( तान् ) विततैः नीचिहस्तैः दूरात् आलिङ्गति पुनीते च (इति) इयं नगर्याः अगर कथम् अभिहिता न ( स्यात् ) ? (प्रकाशतम्भएषा-इयं नदी, अखिलपुरजनान-नगरनिवा. सिनिखिलप्राणिल्मा सत्पयःपानदानात्-तृषातृप्त्यै स्वच्छसलिलवितरणात् , तानीन्तनसमये सर्वो हि राजनगरीयलोकः साभ्रमतीसलिलमापिबन्नासीदिति सूच्यते / प्रीणाति-प्रसन्नयति, तृप्तिमाद