________________ चञ्चलितशरीरा; उदस्तैः-उत्क्षिप्तैः, उच्छलद्भिरितियावत् , उत्पूर्वकाद्दिवादेरस् धातोः क्ते इदम् , वीचिहस्तैः-ऊर्मिपाणिभिः, रसात्स्नेहात्, दूरात-विप्रकृष्टतः, आलिङ्गितुम्-आश्लेष्टुम् , इवकिम् , उपस्थास्यते-उपस्थिता भविष्यति, समीपमागमिष्यतीतियावत् // 65 // (66) सूक्तद्वयेन तां वर्णयति एपेति- . एषा क्वापि प्रचुरतरभैः काननैः कम्रकूला, कापि क्रीड-युवतिनिकरै-रप्सरःसेवितेव / / सद्वेषेव क्कचन वितते-रम्बरैधौतमुक्तैमुक्ताशुत्तया-वलिरुचितरैः क्वाप्यलङ्कारितेव // 66|| (अन्वयः ) एषा क्वापि प्रचुरतरभैः काननैः कम्रकूला, ( अस्ति ) क्वापि क्रीडधुर्वातनिकरः अप्सरःसेविता इव, वचन धौतमुक्तैः विततैः अम्बरैः सद्वेषा इव, क्वापि मुक्ताशुक्क्यावलिरुचितरैः अलङ्कारिता इव // 66 // (प्रकाशः) एषा-इयं तटिनी, कापि-कुत्रापि स्थले, प्रचुरतरभैः-स्फारस्फिरप्रभान्वितैः, काननैः-: पिनैः, क्रमकूलामञ्जुप्रपाता ‘कूलं प्रपातः' इति हैमः, अस्तक्लगेषः, एवमग्रेऽपि कापि-कुहचन तु, क्रीडयुवतिनिकरैः-वितःलासिनीतरुणीनिकुरम्बैः, अप्सर सेविता इव-किमु स्वर्वधूपासित, कचन-स्थलविशेषे, धौतमुक्तैः-पूर्वं धौतं पश्चान्मुक्तं धौतमुक्तन्तैः, 'पूर्वकालैक'