________________ : 88 : तत्रालोक्य स्वपतितनयं राजतेजोऽभिरामं, . दर्भाङ्कर-च्छलपुलकिता त्वामुपस्थास्यतेऽसौ // आमूलाग्रं तरलिततनु-/चिहस्तैरुदस्तैईरादालि-ङ्गितुमिव रसात् साभ्रमत्यब्धिकान्ता // 65 // ( अन्वयः) तत्र राजतेजोऽभिरामं स्वपतितनयं त्वाम् आलोक्य असौ अधिकान्तां साभ्रमती दर्भाङ्करच्छलपुलकिता आमूलाग्रं तरलिततनुः उदस्तैः वीचिहस्तैः रसात् दुरात् आलि. कितुम् इव उपस्थास्यते // 65 // .' (प्रकाशः) तत्र-उपराजनगरम् , राजतेजोऽभिरामम्चन्द्रातपमञ्जुलम् , पार्थिवप्रतापमनोरममित्यपि, राजपदवाच्यत्वा. चस्य, तथा चानेकार्थसङ्ग्रहः - राजा तु पार्थिवे, निशाकरे प्रभौ' स्वपतितनयम्-निजनाथनन्दनम् , समुद्रात्मजमितियावत् , समुद्रस्य सरित्पतित्वात् , त्वाम्-पुत्रप्रायं श्रीमन्तम् , आलोक्य-दृष्टिपथमासाद्य, असौ-इयम् , समीपस्थितेतिभावः, अब्धिकान्ता-समुद्रदयिता, सरिदितियावत् , साभ्रमती-तदभिधानप्रसिद्धा, अस्याः किश्चिद्वृत्तं मयूरदूतपञ्जिकायां यथा-'विद्यते मेदपाटदेशप्रदेशे प्रायो द्वादशयोजनपरिमितमेकं महासरस्ततो निर्गतेयं सरित् साबरमतीनाम्नी, सेयं दक्षिणस्यां दिशि प्रवर्धमानप्रवाहा राजनगरं तरङ्गरङ्गितं विधाय स्तम्भतीर्थनिकटवर्तिन ( खंभातनो अखात ) सरितां पतिं सागरं प्रगल्भाऽपि मुग्धेव मिलति, सोऽपि दक्षिणनायक इव तो स्वेऽके सोल्लासं निवेशयति ' / दर्भाकूरच्छलपुलकिताकुशाङ्कुरव्याजरोमाञ्चिता, आमूलाग्रं तरलिततनुः मूलतोऽयं यावत्