________________ 87 : रम्यादस्मा-द्रज नगवरा-न्मारवीनां नवीनां / श्रीखण्डार्चा वपुषि रचय-श्चन्द्रिकाणां तरङ्गैः / / मिद्धद्रङ्गे क्षणमथ सर-स्वत्युपेते विलम्ब्य / राजद्रङ्गं भुवनविदितं यास्यसि त्वं निमेषात् // 64 // ( अन्वयः ) चन्द्रिकाणां तरङ्गैः मारवीनां वपुषि नवीनां श्रीखण्डाची रचयन् अस्मात् रम्यात् नगवरात्, व्रज, अथ सरस्वत्युपेते सिद्धद्रने क्षणं विलम्ब्य त्वं निमेषात् भुवनविदितं राजद्रङ्गं यास्यसि // 64 // (प्रकाशः ) चन्द्रिकाणां तरङ्ग:-कौमुदीवीचीभङ्गैः, ज्योस्नाजालैरितियावत् , मारवीनां वपुषि-मरुधरविषयवास्तव्यानां विग्रहे, नवीनां श्रीखण्डार्चाम्-अपूर्वां चन्दनार्चनाम् , देहे निपतिताश्चन्द्रपादाश्चन्दनद्रवलेपसदृशा भान्तीत्याशयः, रचयन्-विदधन् , अस्मात्-अतः, रम्यात्-मनोरमात् , नगवरात्-प्रधानपर्वततः, ब्रज-एहि, अथ-गमनानन्तरम् , सरस्वत्युपेते-तन्नामसरित्समन्विते, सरस्वतीसरित्तीरमुपागत इति यावत् , सिद्धद्रङ्गेसिद्धपुरपत्तने, क्षणम्-निमेषम् , विलम्ब्य-स्थित्वा, त्वम्श्रीमान् , निमेषात्-ईषत्कालेन, भुवनविदितम्-विश्वविश्रुतम् , राजद्रङ्गम्-राजनगरम् , अहम्मदावादेति प्रसिद्धनामधेयं पुरम् , यास्यसि-गमिष्यसि, प्राप्स्यसीतियावत् // 64 // (65) तत्र निजजननीकल्पाकल्लोलिनी साभ्रमती त्वामभिनवरङ्गतरअकरैराश्लिष्यतीत्याह-तत्रेति