________________ इत्थं स्थित्वा स्थिरतरधिया लोकनीयोऽबुंदाद्रिरस्याद्रष्टा जगति हि जनो गण्यते गर्भ एव / ' दृष्ट्वा चैनं व्रज गजपतेः सत्त्वरैः पादपातैर्नालस्यं स्या-दुपकृतिकृतांत्वादृशां ह्युत्तमानाम् // 63 // ( अन्वयः ) इत्थं स्थिरतरधिया स्थित्वा अर्बुदाद्रिः लोकनीयः हि अस्य अद्रष्टा जनः जगति गर्भ एव गण्यते, च एनं दृष्टा सत्वरैः गजपतेः पादपातैः व्रज हि उपकृतिकृतां त्वादृशाम् उत्तमानाम् आलस्य न स्यात् // 63 // ( प्रकाशः ) इत्थम्-एवं प्रकारेण, स्थिरतरधिया-अविचलबुद्ध्या, प्रशान्तचित्तेनेति यावत् , स्थित्वा-स्थितिं विधाय, अर्बुदाद्रिः-असावचलः, लोकनीयः-द्रष्टव्यः, हि-यतः, अस्याद्रष्टा-पर्वतस्यास्यानवलोकयिता, येन नायं गिरिदृष्टिपथमापादितः सः, जनः-प्राणी, जगति-विश्वे, संसारे, गर्भ एव-अजात एव, अविकसितचैतन्य एव, गण्यते-संख्यायते, मन्यत इतियावत् , च-पुनः, एनं दृष्ट्वा-अमुं गिरिमालोक्य, सत्वरैः-शीर्णोः, त्वरान्वितैरिति यावत् , गजपतेः-हस्तिश्रेष्ठस्य, करिवरगतितुल्यगभीरगमनैरितियावत् , पादपातेः-चरणनिपातैः, ब्रज-प्रयाहि, हि-यतः, उपकृतिकृताम्-परोपकारपरायणानाम् , त्वादृशाम्-तव तुल्यानाम् , उत्तमानाम्-उत्कृष्टानाम् , आलस्यम्-प्रमादः, न स्यात्-न हि भवेत्। (64) इतः सिद्धपुरमालोक्य राजनगरं चतुर्दशयोजनविप्रकृष्टस्थितं गमनायाह-रम्यादिति