________________ शैलेऽस्त्यस्मिन् प्रतिपदमहो लौकिकी तीर्थराजी, मिथ्यादृष्टि-क्षितिपतिनति-प्राप्तमिथ्यानुभावा / / न द्रष्टव्या सुभग ! भवता कौतुकादप्यसौ यन्मालिन्यं स्या-त्तदभिगमना-च्छुद्धसम्यत्तवरत्ने।६२। ( अन्वयः) अस्मिन् शैले अहो ! प्रतिपदं मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिथ्यानुभावा लौकिकी तीर्थराजी अस्ति, सुभग ! भवता असौ कौतुकादपि न दृष्टव्या यत् तदभिगमनात् शुद्धसम्यक्त्वरत्ने मालिन्यं स्यात् / / 62 // (प्रकाशः) अस्मिन् शैले-पर्वतेऽत्रार्बुदाचले, अहो ! धिक्, प्रतिपदम्-पदे पदे, स्थाने स्थाने इतियावत् , मिथ्यादृष्टिक्षितिपतिनतिप्राप्तमिश्यानुभावा--असद्भूतदर्शनानुयायिनरपति'नमस्करणावाप्तासत्प्रभावा, यदत्र तीर्थे नमनाय नरनायका अपि समागच्छन्तीति प्रभावोऽस्य महान् वर्तते इत्येवं तदनुयायिभिर्विस्तारितालीकवर्णवादा, परन्त्वेतन्नाद्भुतं यादृशं तीर्थं तादृशा नृपाला अपि तत्र गच्छेयुरितिभावः, लौकिकी-लोकसम्बन्धिनी, न तु लोकोत्तरेत्याशयः, तीर्थराजी-तीर्थश्रेणी, भस्ति-वर्तते, सुभग !-प्रिय ! भवता-श्रीमता, असौ-इयम् , कथिततीर्थावलिः, कौतुकादपिकुतूहलादपि, न द्रष्टव्या-नावलोकनीया, यत्-यतः, तदभिगमनात्-लौकिकतीर्थ प्रत्यभिसरणात् , शुद्धसम्यक्त्वरत्ने-निर्मलश्रद्धानस्वरूपहीरके, मालिन्यम्-कालिमा, स्यात्-भवेत् , स्पष्टं चैतत् प्रतिपादितं सम्यक्त्वव्रतप्रतिज्ञाप्रतिपादकसूत्रालापके // 62 // एवं शान्तवृत्त्या विलोक्योऽयं गिरित्याह-इत्थमिति