________________ ( अन्वयः ) एषः अद्रिः भूरिदिव्यौषधीभिः चिरम् उपचितः अस्ति, तस्माद् अस्योपरि विशिष्य चन्द्रिकाणां रसं किर, औषधीशान ! ते अङ्गस्पर्शात् च एताः रयात् पुष्टि दधतु (यतः ) स्त्रीणां यौवनं परममुदितं भर्तृसङ्गः, अथवा स्त्रीणां भर्तृसङ्गः परमं यौवनम् उदितम् // 61 // (प्रकाशः ) एषः अद्रि:-असावर्बुदाचलाख्यगिरिः, भूरिदिव्यौषधिभि:-अतिशयमनोहरफलपाकान्तवनस्पतिभिः, प्रचुरपवित्रवनराजीभिरितियावत् , चिरम्-दीर्घसमयतः, उपचित:समृद्धः, अवयववृद्ध्या बहुलीभूत इति यावत् , अस्ति-वर्तते, तस्माद्-अतः, अस्योपरि-पर्वतस्यास्योपरिष्टात् , विशिष्यविशेषरूपेण, अतिशयेनेति यावत् , चन्द्रिकाणां रसम्-ज्योस्नासुधासञ्चयम् निजकरामृतमिति यावत्, किर-विक्षिप, औषधीशान!-औषधिनाथ!, चन्द्र ! ते अङ्गस्पर्शात् च-तव शरीरसम्बन्धतस्तु, एताः-औषध्यः, रयात्-शीघ्रम्, तत्कालमितियावत् , पुष्टिम्-पोषणम् , वृद्धिमिति यावत् , दधतु-धारयन्तु, प्राप्नुवत्वितिभावः, यतः, स्त्रीणाम्-योषिताम् , यौवनम्-तारुण्यम् , परममुदितम्-प्रकर्षप्रमोदान्वितम् तदा यदि चेत्, भसङ्ग:स्वामिसम्बन्धः, यद्वा स्त्रीणाम्-तरुणीनाम् , भर्तृसङ्गः-दयितसमागमः, परमं यौवनम्-उत्कृष्टं तारुण्यम् , उदितम्-कथितम् , संसारनिबन्धनशृङ्गारविचारविवेचनचतुरैरितियावत् // 61 // . (62) कुतूहलतोऽपि मिथ्यामतितीर्थानि न द्रष्टव्यानीत्याह-शैल इति