________________ : 83 : अप्यथ दुर्गस्य अधः श्रीकुमारक्षितीन्दोः जिनगृहम् ( अस्ति) तेषु अनुपममते ! भावतः श्रीजिनार्चाः वन्देथाः // 60 // (प्रकाशः ) ततः-दर्शितमहामन्दिरतः, किश्चिनीचैश्चईषदधस्तात्पुनः, ऊवं गन्तुम्-उपरितनप्रदेशे प्रयातुम् , प्रवृत्तम् ( अपि )-कृतप्रयत्नमपि, नवरुचां भारात्-अभिनवत्विषां गुरुत्वसम्बन्धात्, श्रान्तमिव-श्रममधिगतमिव, कान्तम्-रमणीयम् , अर्हनिशान्तम्-जिनमन्दिरम् , भवति-आस्ते, न ह्यधिकभारमागृह्य पर्वतोपरि प्रयातुं पार्यते इति चैत्यमदः रुचीनामधिकभारेण श्रान्तमत्रैव विश्रामाय स्थितमित्याशयः / अप्यथ-पुनरपि, दुर्गस्य अधः-अचलाचलस्य नीचैः, श्रीकुमारक्षितीन्दोः-श्रीकुमारपालभूपालश्रेष्ठस्य, जीवदयाप्रतिपालार्हतनृपचन्द्रेण निर्मापितमिति यावत् , जिनगृहम्-तीर्थकरप्रासादः, अस्तीतिशेषः, तेषुतत्र सर्वत्र, अनुपममते !-अतुलधिषण ! भावतः- भक्त्या, प्रणयपरिपूर्णस्वान्तेनेतियावत् , श्रीजिनार्चा:-श्रीमदर्हत्प्रभोः प्रतिमाः, वन्देथाः-नमस्कुर्याः / उत्प्रेक्षानुप्रासौ // 60 // (61) औषधिपतिस्त्वं तत्र स्थिता औषधीः पोषयेरित्याह-अस्तीतिअस्त्येषोऽद्रि-श्चिरमुपचितो भूरिदिव्यौषधीभिस्तस्मादस्यो-परि किर रसं चन्द्रिकाणां विशिष्य / / एताः पुष्टिं दधतु च रया-दौषधीशान ! तेऽङ्गस्पर्शात् स्त्रीणां परममुदितं यौवनं भर्तृसङ्गः॥६१॥