________________ : 82 : यादृक् उच्छ्रितम् अनुपमस्वर्णरीरीविमिश्रम् अर्चाचतुष्कम् ( अस्ति ) तादृक् क्षमापीठे न क्वचिद् अधिगतम् // 59. / (प्रकाशः) ततः-वर्णितचैत्यचयतः तत्र च-अर्बुदाचले हि, किञ्चिद्दरे-ईषद्विपकृष्टे, अचलाख्यः दुर्गः-अचलनामा पर्वतः, कष्टगमनीयत्वाद् दुर्ग एव सः, भवति-वर्तते, तस्मिन् मौलौ-तत्र शिखरे, चतुरिम्-चतुष्प्रतीहारम् , 'वलजं प्रतीहारो द्वारि' इति हैमः, उत्तुङ्गचैत्यम्-अत्युन्नतविहारः, अभ्रंलिहप्रासादः, विलसति-विराजति, तत्र-तस्मिन् चैत्ये, यादृक्-याहशम् , उच्छ्रितम्-उन्नतम् , महोचमिति यावत् , अनुपमस्वर्णरीरीविमिश्रम्-असमकाञ्चनपीतलोहसम्मिश्रम् , 'रिरी रीरी च रीतिश्च, पीतलोहं सुलोहकम् ' इति हैमः / अर्चाचतुष्कम्-बिम्बचतुष्टयम् ऐतिह्येन चतुर्दशशतमणप्रमाणप्रमितं सर्वधातुमयमिति प्रसिद्धमस्ति, तादृक्-तत्तुल्यम् , क्षमापीठे-भूमण्डले, न क्वचिद्-नहि कापि, अधिगतम्-सम्पाप्तम् // 59 // (60) नीचैः किश्चि-द्भवति च ततः कान्तमहनिशान्तं, श्रान्तं भारा-दिव नवरुचां गन्तुमूर्ध्व प्रवृत्तम् // दुर्गस्याधोऽ-प्यथ जिनगृहं श्रीकुमारक्षितीन्दोवन्देथास्ते-ध्वनुपममते! भावतः श्रीजिनार्चाः // 60 // .. ( अन्वयः ) ततः किञ्चिन्नीचैः च ऊर्ध्वं गन्तुं प्रवृत्तम् (अपि) नवरुचां भारात् श्रान्तम् इव कान्तम् अर्हनिशान्तं भवति,