________________ नैव,वन्द्याः -प्रणमनीयाः,अस्मत्प्रगुरुगुरुश्रीविजयदानसूरीश्वरप्रसादितजल्पपट्टकविवरणात्मके जगद्गुरुश्रीविजयहीरसूरीश्वराज्ञप्तवादपट्टके स्पष्टं तत्प्रतिषेधात् / यत्-यतः, दिग्वेलानाम्-दिगेव वेला-मर्यादा येषान्ते तेषाम् उपलब्धमुद्रितपुस्तकस्थदृश्यमानपाठानुसारेण,दिक्दै लानामिति यदि पाठः स्यात्तदा स्पष्टमेव, आशाम्बराणाम् , दिक्पटकपटकुपथनिपतितानामिति यावत् , कटुकमतिनाम्-कटुका(कडुआ)भिधमतविशेषाणाम् , कटुकमतकदाग्रहग्रहग्रहिलानामिति यावत् , द्रव्यलिङ्गस्पृशाम्-नाममात्रमुनिवेषधारिणाम् , अर्हद्विम्बम्-तत्तद्विहितदुर्विधिविधाना जिनमूर्तिः, सुविहितमुने:-शासदर्शितमुनिमार्गमर्यादामाचरतः साधोः, वासयोगं विना-सद्गन्धिवासचूर्णनिक्षेपप्रयोगमन्तरा, अयं न-न हि पूजनीयम् // 58 // (59) ततो नातिदूरस्थमचलदुर्गं तत्रस्थजिनमन्दिरञ्च दर्शनाय वन्दनाय चाह किञ्चिदिति- .. किञ्चिद्दरे भवति च तत-स्तत्र दुर्गोऽचलाख्यो, मौलो तस्मिन् विलसति चतुरमुत्तुङ्गचैत्यम् / __ यादृक् तत्रो-च्छ्रितमनुपम-स्वर्णरीरीविमिश्र, न मापीठे कचिदधिगतं तागर्चाचतुष्कम् // 596 ( अन्वयः ) ततः तत्र च किश्चिदुरे अचलाख्यः दूर्य: भवति, तस्मिन् मौलौ चतुरम् उत्तुङ्गचैत्यं विलसति, तत्र