________________ उबुद्धसंस्कारसहचरम्, तत्-तत्समवसरणम्, अवश्यम्नूनम् , संस्मरिष्यसि-स्मृतिगोचरमापादयिष्यसि, अयमांशयःहे चन्द्र / तत्र तेषां मन्दिराणामनतिदूरे समवसणसदृशं खरतरानुयायिकृतमेकमास्ते मन्दिरम् , तद्दर्शनेन तव पूर्व महाविदेहक्षेत्रे साक्षात्समवसरणदर्शनजनितसंस्कार उबुद्धो भविष्यसि एकसम्बन्धिज्ञानमपरसम्बन्धिनं स्मारयतीति, एतादृशमेव मया तत्र दृष्टमासीदिति स्मरणमप्यस्य दर्शनेन ते मनसि जनिष्यतीति / स्मरणालङ्कृतिः / / 57 / / (58) . अन्ये चात्रा-मृतकर ! हरि-द्वाससां ये विहारा, द्रष्टव्यास्ते न खलु भवता तत्र वन्द्या जिनार्चाः / / दिग्वे(क्चै)लानां कटुकमतिनां द्रव्यलिङ्गस्पृशां यनाहडिम्बं सुविहितमुने-ासयोगं विनाय॑म् // 58 // ( अन्वयः ) अमृतकर ! अत्र च हरिद्वाससाम् अन्ये ये विहाराः ते द्रष्टव्याः भवता तत्र जिनार्चाः न खलु धन्याः यत् दिग्वे(क्चै)लानां कटुकमतिनां द्रव्यलिङ्गस्पृशाम् अर्हद्विम्ब सुविहितमुनेः वासयोगं विना अयं न // 58 / / (प्रकाशः) अमृतकर!-अयि सुधाकर !, अत्र च-अस्मिन्नबुंदाचले, हरिद्वाससाम्--दिगम्बराणाम् , अन्ये ये-इतरे यावन्तः, विहारा:-चैत्यानि सन्तीति शेषः, ते-दिगम्बरजिनमन्दिराणि, द्रष्टव्याः-निरीक्षणीयाः, भवता-श्रीमता, तत्र-तस्मिन् चैत्ये, जिनार्चा:-अर्हत्प्रतिमाः, 'अर्चा तु प्रतेर्मा-' इति हैमः, न खलु