________________ : 79 : वरस्य, विहार:-चैत्यम् , अपि-पुनः, द्रष्टव्यः-निरीक्षणीयः, स्यात्-भवेत् , एवं च इह-इत्थमत्र, शोभाविशेषैः-रामण्यभेदैः, अतिशयकान्तिभिः, त्रिभुवनम्-जगत्रयम् , अतिक्रम्य-अतीत्य, प्रासादानां त्रिकम्-जिनसदनत्रितयम् , प्रीतिगोष्ठयै-स्नेहसभायै, गावो नानोक्तयस्तिष्ठन्त्यस्यां गोष्ठी, स्थादित्वात् के 'गोऽम्बा-' ।२।३।३०।इतिषत्वम् , समुदितं किम् ?-एकत्रीभूतं किम् / उत्प्रेक्षा। (57) आस्ते चैत्यं खरतरकृतं नातिदूरे यदेषां, तत्रोत्तुङ्गे चतसृषु दिशा-स्वहतो वन्दमानः॥ साक्षादृष्टं समवसरणं यद्विदेहावनीषु, तत्संस्कारो-दयसहकृतं संस्मरिष्यस्यवश्यम् // 17 // ( अन्वयः ) एषां नातिदूरे खरतरकृतं यत् चैत्यम् आस्ते तत्र उत्तुङ्गे चतसृषु दिशासु अर्हतो वन्दमानः ( त्वम् ) विदेहावनीषु यत् समवसरणं साक्षात् दृष्टं संस्कारोदयसहकृतं तत् अवश्यं संस्मरिष्यसि // 57 // - (प्रकाशः) एषाम्-पुरोदितजिनप्रासादत्रयाणाम् , नातिदरे-न बहुविप्रकष्टे, निकट इतियावत् , खरतरकृतम्-खरतराभिधगच्छानुयायिभिः सम्पादितम् , यत् चैत्यम्-यद्विहारः, आस्तेवर्तते, तत्र उत्तुङ्गे-अत्युन्नते तस्मिन् , चतसृषु दिशासु-चतुर्दिक्षु, अर्हतो वन्दमान:-जिनेश्वरान्नमस्यमानस्त्वम् , विदेहावनीषुमहाविदेहभूमिषु, यत् समवसरणम्-यत् जिनेश्वरप्रभोः देशनास्थानम् , साक्षात् दृष्टम्-प्रत्यक्षीकृतम् , संस्कारोदयसहकृतम्