________________ : 78 : स्तीर्य तेभ्यः सा स्वीकृतेति, इति ऐतिह्यानि-एवं विधानि इतिहाससम्बन्धिवृत्तानि, तत्र-अर्बुदाचले, त्वम्-श्रीमान्', अनुसूतभवञ्चन्द्रिकाणाम्-प्रसृतश्रीमज्योत्स्नानाम् , येषां वदनाधुपरि शशिकिरणकलापो निपतति तेषामितिभावः, मित्रगोष्ठीम्मुहृद्विनोदवार्ताम् , कुर्वताम्-विदधताम् , जरताम्-स्थविराणाम् , 'वृद्धः प्रवयाः स्थविरो जरन्' इति हैमः, मुखेभ्यः-वदनेभ्यः, श्रोष्यसि-आकर्णयिष्यसि // 55 // (56), द्रष्टव्यः स्या-दयमपि सखे ! भीमसाधोविहारस्तार्तीयीक-स्त्रिदशसदन-स्फारगर्वापहश्रीः / / एवं चैत-त्रिभुवनमति-क्रम्य,शोभाविशेषैः, प्रासादाना-मिह समुदितं प्रीतिगोष्टयै त्रिकं किम् / ( अन्वयः ) सखे ! अयं तार्तीयीकः त्रिदशसदनस्फारग पहश्रीः भीमसाघोः विहारः अपि द्रष्टव्यः स्यात्, एवं 2 इह शोभाविशेषैः, त्रिभुवनम् अतिक्रम्य प्रासादानां त्रिकं प्रीति गोष्ठ्यै समुदितं किम् // 56 // (प्रकाशः ) सखे !-मित्र ! अयम्-पुरा दृश्यमानः, तार्ती यीका-तृतीयः, ' त्रेस्तृ च ' / 7 / 1 / 166 / इति तीयः त्रेस्तु च 'तीयाट्टीकण्-' 172 / 153 / इति तीयान्ताट्टीकण तातीयीकः, त्रिदशसदनस्फारगर्वापहश्री:-अमरभवनचञ्चदहङ्कारविनाशकलक्ष्मीः, प्रासादस्यास्य समृद्धिसमीपे देवालयमपि हीनप्रभमितिभावः भीमसाधोः साहुकारश्रीभीमजीनामश्राद्धश्रेष्ठश्रेष्ठि