________________ : 76 : श्मखण्डरूपो, ' आरस' पदवाच्यपाषाणसम्पादिताविति यावत्, चित्रदोत्कीर्णचित्रौ-आश्चर्यदायिचित्रकरोल्लिखितालेख्यौ, तत्र तत्र मन्दिरे विशिष्टपाषाणे विविधमनोविनोददा अद्भुताकृतय उल्लिखिताः सन्तीतियावत् , चञ्चचन्द्रोदयचयचितौ-देदीप्यमानवितानविशेषविस्तारविभूषितौ, ' अथोल्लोचो वितानं कदकोऽपि च / चन्द्रोदये' इति हैमः, कल्पितानल्पशिल्पो-सम्पादितभूरिचित्रविशेषौ, विमलनृपतेर्वस्तुपालस्य च-नरवृषभश्रेष्ठिश्रीविमलमन्त्रिमन्त्रिवरश्रीवस्तुपालयोः, उच्चौ-गगनाङ्गणगतौ, उच्चैस्तराविति. यावत् , तौ-विश्वविश्रुतौ, द्वौ प्रासादौ-द्विसद्ध्यविहारौ, तौ स्थिरतरयशोरूपदेहाविव-तत्प्रसिद्धपुरुषद्वयस्य चिरस्थायिवर्णवादस्वरूपशरीराविव, जीयास्ताम्-चिरं विजयेताम् / / 54 / / (55) एषा भूमि-विमलविभुना ब्राह्मणेभ्यो गृहीता, चैत्यं कर्तुं रिपसुरजिता रूप्यमास्तीर्य विष्वक // ऐतिह्यानि त्वमिति जरतां कुर्वतां मित्रगोष्ठी, तत्र श्रोष्य-स्यनुमृतभव-चन्द्रिकाणां मुग्वेभ्यः // 55 // (अन्वयः) रिपुसुरजिता विमलविभुना चैत्यं कर्तुम् एषा भूमिः विष्वक् रूप्यम् आस्तीर्य ब्राह्मणेभ्यः गृहीता, इति ऐतिह्यानि त्वम् अनुसृतभवञ्चन्द्रिकाणां मित्रगोष्ठी कुर्वतां जरतां मुखेभ्यः श्रोष्यसि // 55 // (प्रकाशः) रिपुसुरजिता-प्रासादोपद्रवकारिमिथ्याहगतिक्रूरवीरनाथनामकदुष्टदेवविजेत्रा, इदमदम्पयं पठ्यते हि विमल