________________ : 75 : मन्त्रिनिर्मापितमहामन्दिरे, सेवायातत्रिदशनिकर:-प्रतिपत्त्यर्थमागतसुरसमूहः, यस्य प्रभोः पूजायै देवा अपि आगच्छन्तीतिभावः पूर्णपादोपकण्ठः-पूर्ण पादस्योपकण्ठं समीपं यस्य सः,व्याप्तचरणसमीपः, सर्वदा शतशो जनास्तत्र मन्दिरे प्रभुपार्श्वे तिष्ठन्तीत्याशयः। श्रीमान् नाभेयदेवः-नाभिनन्दनश्रीऋषभदेवप्रभुः, भाति-विराजते, च-पुनः साक्षादिन्द्रालय इव-प्रत्यक्षदेवराजसदने यथा, वरे-प्रधाने, वस्तुपालस्य चैत्ये-मन्त्रिप्रवरश्रीवस्तुपालसम्पादितार्हन्मन्दिरे, श्रीलुणीगवसताविति यावत् , ' चैत्यविहारौ जिनसद्मनि' इति हैमः, निविष्टः-प्रतिष्ठितः, नेमिस्वामीशिवासुतः श्रीनेमिनाथजिनः, आनतानाम्-प्रणतानाम् , प्राणिनामिति शेषः, शिवानि-मङ्गलानि, श्रेयांसीति यावत् , दिशतिवितरति, सम्पादयतीति भावः // 53 // (54) रूप्यस्वच्छो-पलदलमयो चित्रदोत्कीर्णचित्रो, चश्चञ्चन्द्रो-दयचयचितौ कल्पितानल्पशिल्पौ। जीयास्तां तौ विमलनृपते-वस्तुपालस्य चोचो, प्रासादौ तौ स्थिरतरयशो-रूपदेहाविव द्वौ // 54 // ( अन्वयः ) रूप्यखच्छोपलदलमयौ, चित्रदोत्कीर्णचित्री, चञ्चञ्चन्द्रोदयचयचितौ, कल्पितानल्पशिल्पी, विमलनृपतेः वस्तुपालस्य च उच्चौ तौ द्वौ प्रासादौ तौ स्थिरतरयशोरूपदेहाविव जीयास्ताम् // 54 // . (प्रकाशः) रूप्यस्वच्छोपलदलमयौ-रजतकल्पधवला