________________ : 74 : एतद्घनवनगतम्-अदःसान्द्रगहनस्थितम्, अन्धकारम्-तिमिरम् , न हन्यु:-नहि प्रणाशयेयुः, तदपि-तथापि, भवान्-श्रीमान्, स्वे मृदुत्वे-आत्मीयकोमलतायाम् , विषण्णः-खिन्नः, माभूत-न जातु जायताम् , हि-यतः, यत्र-यस्मिन् , दिविषत्पुंश्चलीनाम्स्वर्वैश्यानाम् , अनङ्गक्रीडासदसि-मदनविनोदमन्दिरे, दिवापिअहन्यपि, उष्णांशोरपि-चण्डरोचिषोमार्तण्डस्यापि, खरकरा:तीक्ष्णदीधितयः, कुण्ठताम्-मदन्ताम् , विफलतामितियावत् , आश्रयन्ते-प्राप्नुवन्ति, यत्र प्रचण्डप्रतापभानवीयभानूनामप्यप्रवेशस्तत्र तव किरणानामप्रवेशे न शोचनीयतेत्याशयः // 52 // (53) ___ अथ सूक्तषट्रेन तत्रत्यचैत्यजातं सव्यतिकरं सकटाक्षं वर्णयति तत्रेति तत्र श्रीमान् विमलवसतो भाति नाभेयदेवः, सेवायात-त्रिदशनिकरः पूर्णपादोपकण्ठः // नेमिस्वामी दिशति च शिवा-न्यानतानां निविष्टः, साक्षादिन्द्रा-लय इव वरे वस्तुपालस्य चैत्ये // 53 // ( अन्वयः ) तत्र विमलवसतौ सेवायातत्रिदशनिकरः पूर्णपादोपकण्ठः श्रीमान् नामेयदेवः भाति, च साक्षात् इन्द्रालये इव वरे वस्तुपालस्य चैत्ये निविष्टः नेमिस्वामी आनतानां शिवानि दिशति // 53 // (प्रकाशः ) तत्र-अर्बुदाचले, विमलवसतौ-श्रेष्ठिविमल.