________________ चेता:-प्रत्याप्रचुरघासलेहनोन्मत्तमानसः, अयम्-असौ मृगः, अत्यन्तदूरम्-अतिशयविप्रकृष्टम् , गन्तुम्-गमनाय, सह्यः-सोढव्यः, न-नैव, निजाक्षिसमक्षमेव चारणीयः परं न दृष्टिपथबहिर्भूतः करणीय इति भावः, यत्-यस्मात् कारणात् , बहलविटपिषु-नीरन्ध्रवृक्षेषु, नीरन्ध्र बहलं दृढम् ' इति हैमः, अर्बुदाद्रेः-अर्बुदाचलस्य, कुडङ्गेषु-निकुञ्जेषु, निर्मग्नाः-निपतिताः, करिवराः अपिहस्तिश्रेष्ठा अपि, अप्राणा:-नष्टचैतन्याः, स्युः-भवेयुः, तदा अन्यजन्तोः-इतरप्राणिनः, हस्तिव्यतिरिक्तक्षुद्रचेतसाम् , का कथा?वातॆव का ? नेहातिशयोक्तिः शङ्ख्या तस्य तादृशगहनत्वात् // 51 // . (52) यत्र चण्डरोचीरोचिषामप्यप्रवेशस्तद्गहनतायां किमु वक्तव्यमित्याह यद्यपीति यद्यप्येत-द्धनधनगतं नान्धकारं करास्ते, हन्युर्माभू-त्तदपि हि भवान् स्वे मृदुत्वे विषण्णः / यत्रोष्णांशो-रपि खरकराः कुण्ठतामाश्रयन्तेऽनङ्गक्रीडा-सदसि दिविषत्-पुंश्चलीनां दिवापि // 52 // ( अन्वयः ) यद्यपि ते कराः एतद्घनवनगतम् अन्धकारं न इन्युः तदपि भवान् स्वे मृदुत्वे विषण्णः माभूत्, हि यत्र दिविषपुंश्चलीनाम् अनङ्गक्रीडासदसि दिवापि उष्णांशोरपि स्वरकराः कुण्ठताम् आश्रयन्ते // 52 // .. (प्रकाशः ) यद्यपि यदपि, ते कराः-शीतरइमेस्ते रश्मयः,