________________ : 72 : स्तराम् अतिगहनावेतनभाग इति यावत् , अभितः-समन्ततः, सर्वदिक्षु इति भावः, स्वर्वधूप्रस्तुतैः-देवाङ्गनागीतैः, तैः-प्रसिद्धैः, वीणानादैः-घोषवतीनिर्घोषैः, 'वीणा पुनर्घोषवती' इति हैमः, अपहृतमना:-आकर्षितहृदयः, ते मृगः-तव सारङ्गः, दूरकृष्टःविप्रकृष्टहृतः, मास्मभवत्-नो भवतु, * सस्मे ह्यस्तनी च' / 5 / 4 / 40 / इति शस्तनी -- अड्धातो' / 4 / 4 / 29 / इत्यडभावः, मास्मभवत्, तदनु च-तदनन्तरन्तु, तदन्वेषणे-तच्छोधने, तव खेदः-क्लेशः, विलम्बो चा-अथवा प्रतीक्षा, अतिकाल इतियावत् , माभूत्-मास्म जायत, यतः त्वादृशाः-भवदनुरूपाः, अणुमपिलघीयांसमपि, आश्रितम्-स्वसन्निहितम् , नजमिति भावः, त्यक्ताविहाय, गन्तुम्-प्रयातुम् , नोत्सहन्ते-नैव सज्जा भवन्ति / / 50 // (51) तस्मात् स्वस्मान् नयनविषया-नायमत्यन्तदूरं, गन्तुं सह्यो नवघनतृणा-स्वादविक्षिप्तचेताः // यन्निर्मग्ना अपि करिवरा अर्बुदाद्रेः कुडनेज्वप्राणाः स्यु-बहलविटपि-ध्वन्यजन्तोः कथा का ? // ( अन्वयः ) तस्मात् स्वस्मात् नयनविषयात् नवधनतृणास्वादविक्षिप्तचेताः अयम् अत्यन्तदूरं गन्तुं सह्यः न, यत् बहलविटपिषु अर्बुदाद्रेः कुडङ्गेषु निर्मग्नाः करिवराः अपि अप्राणाः स्युः ( तदा ) अन्यजन्तोः का कथा ? // 11 // (प्रकाशः) तस्मात्-उक्तवक्ष्यमाणकारणात् , स्वस्मात् नयनविषयात्-निजलोचनगोचरतः,, नवधनवणास्वादविक्षिप्त