________________ : 71 : विशेषविस्तारमापन्नैः, 'सृघस्यदो मरक्' / 5 / 2 / 73 / इति मरक् प्रसमरः, आमोदैः-सुगन्धैः, प्राणिनः-सचेतनान् , मोदयन्ति-सन्तोषयन्ति, एतत्तु तत्र सर्वदा भवति परन्तु अधुना वर्षाकाले ते द्रुमा. णां निकुञ्जाः-तरूणां कुडङ्गाः, वयंवैडूर्यबद्धक्षोणीपीठा इवश्रेष्ठवैडूर्य्याख्यनीलमणिविशेषखचितपृथ्वीपीठवत् ,उद्गच्छद्भिर्नवनवणैः-प्रादुर्भवद्भिर्नूतननूतननीवारैः, शं-सुखम् , सुषमाम् , विद. धते-प्रकुर्वन्ते / यथा वैडूर्य्यमणिनिबद्धसिंहासनाऽवस्थानं भवति प्रमोदाय तथा हरिततृणास्तरणाच्छादितभूप्रदेशोपवेशनमपि / उपमा / (50) अतिगहनेऽस्मिन् पर्वते लघीयाँस्ते मृगः पथभ्रष्टो मास्म भवत् प्रहतचैतन्यश्च न च स्यात्ते तदन्वेषणजनितविलम्ब इत्याह सूक्तद्वयं तेष्विति तेषूचैर्मा-स्मभवदभितः स्वर्वधूप्रस्तुतैस्तैवीणानादै-रपहृतमना दूरकृष्टो मृगस्ते / मा भूत्खेद-स्तदनु च तद-न्वेषणे वा विलम्बो, . गन्तुं त्यक्त्वाऽऽश्रितमणुमपि त्वादृशा नोत्सहन्ते / 50 // ( अन्वयः ) तेषु उच्चैः अभितः स्वर्वधूप्रस्तुतैः तैः वीणानादैः अपहृतमनाः ते मृगः दूरकृष्टः मास्मभवत्, तदनु च तदन्वेषणे ( तव ) खेदः विलम्बो वा माभूत् , ( यतः) त्वादृशा अणुमपि आश्रितं त्यक्त्वा गन्तुं नोत्सहन्ते // 50 // ' (प्रकाशः) तेषु-श्रीअर्बुदाचलीयकुडङ्गेषु, उच्चैः-उच्चै