________________ : 70 : यिष्यति-अत्स्यति, इन्दो !-चन्द्र !, भूयःकालक्षुदुदयकृशःचिरसमयबुभुक्षाप्रादुर्भावदुर्बलः, क्षुधाक्षामकुक्षिरितियावत् , अयम्हरिणः, चारणीयः-यथाकामं भोजनीयः, कुत इत्याकाङ्क्षायामाह-सम्मिश्रेति यतः खे-गगने, अटतः-परिभ्रमतः, अस्यमृगस्य, सम्मिश्राम्भोभरतृणततिः-सनीरनीवारनिचयः, दुर्लभादुष्प्राप्या, कदाचित् प्रचण्डपवनप्रेरितं शुष्कतृणमाप्नुयात् परं सलिलसम्मिश्रस्य तस्यासम्भव एव गुरुत्वात्तावदूर्ध्वमसम्भावितगतेः। उत्प्रेक्षा // 48 // (49) तत्रत्यनिकुञ्जवर्णनम्-कूजद्भिरिति / कूजद्भिर्ये श्रुतिसुखकराः कोकिलैमल्लिकानामामोदैश्च प्रस्मरतरैः प्राणिनो मोदयन्ति / उद्गच्छद्भि-नवनवतृणै-वर्यवैडूर्य्यबद्धक्षोणीपीठा इव विदधते शं निकुञ्जा द्रुमाणाम् // 49 // (अन्वयः ) ये कूजद्भिः कोकिलैः श्रुतिसुखकराः मल्लिकानां च प्रसृमरतरैः आमोदैः प्राणिनः मोदयन्ति (ते) दुमाणां निकुआः वयंवैडूर्यबद्धक्षोणीपीठा इव उद्गच्छद्भिः नवनवतृणैः शं विदधते // 49 // (प्रकाशः) ये-तत्पर्वतवर्तिनः, कूञ्जद्भिः कोकिलैः-कूजनं कुर्वद्भिः परपुष्टैः, श्रुतिसुखकरा:-श्रवणानन्दप्रदाः, मल्लिकानाम्विचकिलानाम् , 'मल्लिका स्याद्विचकिलः' इति हैमः, प्रसृमरतरैः