________________ म्पनात् , घूर्णमान:-आन्दोलयद्भिः, विचितरङ्गन्यायेन संसरद्भिः, कीचकानां नादैः-वंशविशेषाणां स्वनैः, 'कीचका वेणवस्ते स्युर्ये स्वनन्त्यनिलोद्धताः ' इत्यमरः, जनमनांसि-लोकहृदयानि, आहरनिव-आकर्षयन्निव, अर्बुद्राद्रिः-अर्बुदाचलः, भवतिवर्तते, असौ-सोऽयम् , अदभ्रम्-अतिशयम् , भूरीतियावत् 'भूर्यदभ्रं पुरुस्फिर ' मिति हैमः / द्रष्टव्यः-निरीक्षणीयः, त्वयेतिशेषः, उत्प्रेक्षानुप्रासौ // 47 // (48) तन्दोः कृशाङ्गं कुरङ्गं चारयितुं प्रेरयति-शृङ्ग इतिशृङ्गेऽमुष्यो-नतिभृति सर-स्तीरभूमिप्ररूढान् , दूर्वाङ्क्रान् किल कवलयि-व्यत्यसौ ते कुरङ्गः। भूयाकाल-क्षुदुदयकृश-श्चारणीयोऽयमिन्दो ! सम्मिश्राम्भो-भरतृणतति-दुर्लभा वेष्टतोऽस्य / 48 / ( अन्वयः ) असौ ते कुरङ्गः उन्नतिभृति अमुष्य शृङ्गे सरस्तीरभूमिप्ररूढान् दूर्वाङ्क्रान् किल कवलयिष्यति इन्दो ! भूयःकालक्षुदुदयकृशः अयं चारणीयः (यतः) खे अटतः अस्य सम्मिश्राम्भोभरतृणततिः दुर्लभा // 48 // (प्रकाशः ) असौ-प्रत्यक्षदृश्यमानः, ते-तव, कुरङ्ग:-कौ रगतीति कुरङ्गः, सारङ्गः, उन्नतिभृति-अत्युन्नते, अमुष्य-अर्बुदाचलस्य, शृङ्गे-शिखरे, सरस्तीरभूमिप्ररूढान्-सरोवरतटभूभागोत्पन्नान् , दुर्वाङ्क्रान्-हरिततृणप्ररोहान् , किल-खलु, कवल