________________ : 68 : व्यासङ्ग:-आसक्तिः, स्वीयकार्यत्यागेनान्यत्र बद्धचित्ततेतियावत्, नोचितः-न साम्प्रतम् , इति-अस्मात्कारणात् , एतत् हितम्-इदं श्रेयोवचनम् , द्विस्त्रि:-द्वित्रिवारम् , 'द्वित्रिचतुरः सुच्' 7 / 2 / 110 / इति सुच्, वदामि-निवेदयामि / / 46 / / (47) श्रीरोहिणीपुरीतोऽदूर एवार्बुदाचलस्तं द्रष्टुमाह-तस्या इति / तस्याः पुर्या भवति पुरतो नातिदूरेऽर्बुदाद्रिद्रष्टव्योऽसौ तरुपरिवृतोऽदभ्रमभ्रङ्कषायः॥ नादैर्गीत-रिव जनमनां-स्याहरन् कीचकानां, गन्धर्वाणा-मिव नवमरु-चालनाद् घूर्णमानैः॥४७॥ ( अन्वयः ) तस्याः पुर्याः पुरतः नातिदूरे तरुपरिवृतः अभ्रकषायः गन्धर्वाणां गीतैरिव नवमरुञ्चालनाद् धूर्णमानैः कीचकानां नादः जनमनांसि आहरन् इव अर्बुदाद्रिः भवति असो अदभ्रं द्रष्टव्यः // 47 // (प्रकाशः) तस्याः पुर्याः-श्रीरोहिणीनगर्याः, पुरतः-अग्रे, नातिदूरे-निकटे, योजनत्रयमात्रव्यवहिते इतियावत् , तरुपरिवृतः-शाखिसमञ्चितः, अभ्रङ्कषान:-अभ्रं गगनं कषति अभ्रकषम् अग्रं यस्य सः अभ्रकषानः 'कूलाभकरीषात्कषः / / 5 / 1 / 110 / इति खः खित्त्वान्मः, अम्बरतलस्पर्शिशिखरः, गन्धर्वाणाम्-देवगायनानाम् , ' हाहादयस्तु गन्धर्वा गान्धर्वा देवगायनाः' इति हैमः, गीतैरिव-गेयैरिव, नवमरुचालनाद्-मन्दमन्दपवनप्रक