________________ : 67 : तत्राप्यङ्गी-कृतनिजसुहृ-व्याहृतेस्त्वादृशस्य, व्यासङ्गो नो-चित इति हितं द्विस्त्रिरेतद्वदामि // 46 // ( अन्वयः ) तस्मात् युवजनपृषद्वागुराणाम् आसां दूरात्यागः नृणाम् अमुत्र अत्र च श्रेयसे हि अवश्यं भवति, तत्रापि अङ्गीकृतनिजसुहृव्याहृतेः त्वादशस्य व्यासङ्गः नोचितः इति एतत् हितं द्विस्त्रिः वदामि // 46 // (प्रकाशः) तस्मात्-तत्कारणात्, पूर्वोदितनिखिलदोषग्रहग्रस्तत्वादितियावत् ,युवजनपृषद्वागुराणाम्-युवजनश्चासौ पृषत् तस्य वागुराणाम् , तरुणनरहरिणपाशकानाम् , 'पृषन्मृगे पुमान् ' इति मेदिनी, वान्ति पतन्ति मृगा अस्यां वागुरा मृगबन्धनरज्जुः ‘श्वशुर-' ( उणा० 426) इत्युरे निपात्यते 'वागुरा मृगजालिके 'ति हैमः, आसाम्-वाराङ्गनानाम् , दुरात्-विप्रकृष्टात् , त्यागः-वर्जनम् , नृणाम्-मनुष्याणाम् , 'नुर्वा' / 1 / 4 / 48 / इति वैकल्पिकदीर्घविधानेन नात्र दीर्घता, अमुत्र-प्रेत्य, परलोके इतियावत् , अमुष्मिन् अदसः सप्तम्यन्तात् ' सप्तम्याः' / 7 / 2 / 94 / इति त्रपि ' आद्वेरः' / 2 / 1 / 41 / इत्यत्त्वे ' मोऽवर्णस्य ' / 2 / 1145 / इतिमत्वे ' मादुवर्णोऽनु' / 2 / 1 / 47 / इत्युत्वे अमुत्र, ' प्रेत्यामुत्र भवान्तरे ' इति हैमः, यथा ' अमुत्र भविता यत्ते तच्चिन्तय शुभाशुभम् ' / अत्र च-इहलोके च, श्रेयसे हि-कल्याणायैव, अवश्यं भवति-खलु सम्पद्यते, तत्रापि-तस्मिन्नपि, अङ्गीकृतनिजसुहव्याहतेः-निजसुहृदो व्याहृतिः अङ्गीकृता निजसुहुट्याहृतिर्येन . तस्य, स्वीकृतस्वीयस्नेहिसन्देशस्य, त्वादृशस्य-भवादृशस्य,