________________ काचित्साचि-स्मितविकसितै-र्मोहयत्यल्पबुद्धीन् , धैर्य काचित् पटुकुचतटो-द्घाटनैलुंण्टति द्राक् // 45 // - (अन्वयः ) काचित् तीक्ष्णैः नयनविशिखैः यूनां मर्म भिनत्ति, काचित् आकृतहृद्यैः नर्मालापैः हृदयं हरति, काचित् साचिस्मितविकसितैः अल्पबुद्धीन् मोहयति, काचित् पटुकुचतटोद्घाटनैः द्राक् धैर्य लुण्टति // 45 // (प्रकाशः) काचित-काचन, तीक्ष्णैः-निशितैः, नयनविशिखैः-अक्षिशरैः, कटाक्षशरसन्धानैरितियावत् , यूनाम्-वयस्थानाम् , ' वयस्थस्तरुणो युवा' इति हैमः, मर्म-सन्धिस्थानम् , भिनत्ति-विदारयति, काचित-कापि, आकृतहृद्यैः-मनोहारिभावैः 'आकूतं मतभावाशया अपी'ति हैमः, नालापैः-परीहासोक्तिभिः, हृदयम्-मानसम् , हरति-आकर्षयति, काचित्-काचन, साचिस्मितविकसितैः-तिर्यगीषद्धासविकासैः,अल्पबुद्धीन्-मन्दमतीन्, मोहयति-आवर्जयति, काचित्-कापि, पटुकुचतटोद्घाटनैःस्फुटस्तनप्रदेशप्रदर्शनैः, द्राक्-शीघ्रम् , धैर्यम्-चित्तस्थैर्यम् 'स्थिरचित्तोन्नतिर्या तु तद्धैर्यमिति गीयते' इत्युक्तेः, 'मनसो निर्विकारत्वं धैर्य सत्स्वपि हेतुषु' इत्युक्तमनोविकाराभावम् , लुण्टति-अपहरति॥ (46) एतादृशवेश्यावासतो दूरगमनं श्रेयस इति भूयोभूयः कथयतीन्दुं तस्मादिति / तस्मादासां युवजनपृष-द्वागुराणामवश्यं, दूरात्यागो भवति हि नृणां श्रेयसेऽमुत्र चात्र / /