________________ (प्रकाशः) भोगिलोकोपगूढा-कामिजनाश्लिष्टा, काचित्कापि वेश्या, नाग्या:-सर्पिण्याः, समताम्-सादृश्यम् , श्रयतिअनुकरोति, यथा नागी भोगि-( नाग )लोकोपगूढा तथेयमपीति भावः, * भोगी भुजङ्गभुजगौ ' इति हैमः, हन्त्री-विनाशयित्री, काचित्--काचन, तत्र-तासु वेश्यासु, ' सप्तमी चाविभागे निर्धारणे' / 2 / 2 / 109 / इति सप्तमी, किम्पाकवल्ल्याः -महाकाललतायाः, कुत्सितः प्राणहरः पाकोऽस्य विषवृक्षत्वात् किम्पाकस्तस्य वल्ली तस्याः 'महाकालस्तु किम्पाकः' इति हैमः / कलां कलयतिसमानतामाश्रयति, यथा रमणीव रमणीया समीचीनस्वादुरूपरससुरभिस्पर्शसमञ्चितफलभरभरिता किम्पाकनामधेया विषवल्लरी भवति परं तदीयफलभक्षणानन्तरमचिरेण चिरनिद्रां श्रयन्ति जनाः तथैवेयमपीत्याशयः / युवभ्रंशहेतुः-तरुणजनपतननिदानम् , काचित पणस्त्री-कापि रूपाऽऽजीवा, ‘पण्यपणाङ्गना....रूपाजीवा ' इति हैमः, गर्ताम्-परिखाम् , तुलयति-सदृशति, यथा गर्तापतितो नोद्धर्तुं प्रभवति तथाऽत्र पतितः पतित एव / ध्यानध्यप्रथननिपुणामतिमान्द्यविस्तारणपटुः, काचित्-काचन, वात्यासखीत्वम्महावातमित्रताम् , वातानां समूहो वात्या 'पाशादेश्च ल्यः' / 6 / 2 / 256 इति ल्यः, लित्वात्स्त्रीत्वम् , याति-एति, यथा वातुलेनान्ध्यं भवति तथाऽनया ध्यान्ध्यं प्रसरतीति भावः // 14 // (45) काचित्तीक्ष्णै-नयनविशिख-मर्म यूनां भिनत्ति, नर्मालापै-हरति हृदयं काचिदाकूतहृद्यैः / /