________________ : 64 : स्वीकृता चासौ निजसुहृत्कार्यसिद्धिस्तस्याः, अङ्गीकृतस्वकीयमित्रकर्तव्यनिष्पत्तेरादिकारणम् , ' निदानन्त्वादिकारणम् ' इत्यमरः, अमलम्-निर्दृष्टम् , एकम्-अनन्यम् , एतद्वचनम्-पुरोऽभिधीयमानं वचः, चित्तात्-अन्तःकरणतः, न उत्तार्यम्-नो बहिष्कार्यम् , किन्तदित्याह-इह हि नगरे-अमुष्मिन्नेव श्रीरोहिणीपुरे, पण्यस्त्रीणाम्-पण्येन स्त्री तासां गणिकानाम् , ' गणिका वेश्या पण्यपणा. गाना ' इति हैमः, गरीयान्-महीयान् , सन्निवेशः-संस्थानम् , निवास इति यावत् , 'संस्थानं संनिवेशः स्यात्' इति हैमः, आस्तेवर्तते, धृतिमतिहरात्-धैर्यधिषणाविध्वंसकात् , तस्मात्-तत्स्थानात् , दूरमेव-अगोचरमेव, अभिगच्छेः -यायाः // 43 // (44) , अथ द्वाभ्यां तत्रत्यानां वाराङ्गनानां वर्णनं निरूपयति दोषमुखेन काचिदिति काचिन्नाग्याःयति समतां भोगिलोकोपगूढा, हन्त्री काचित् कलयति कलां तत्र किंपाकवल्याः॥ काचिद्गर्ता तुलयति युवभ्रंशहेतुः पणस्त्री, काचिद्ध्यान्ध्य-प्रथननिपुणा याति वात्यासखीत्वम्॥ (अन्वयः ) भोगिलोकोपगूढा काचित् नाग्याः समतां श्रयति, हन्त्री काचित् तत्र किम्पाकवल्ल्याः कलां कलयति, युवभ्रंशहेतुः काचित् पणस्त्री गर्ता तुलयति, ध्यानध्यप्रथननिपुणा काचित् वात्यासखीत्वं याति // 44 //