________________ तेऽनया जातिरित्याकृतिः - आकृतिस्तु जातौ रूपे वपुष्यपि ' इति हैमानेकार्थसङ्ग्रहः, नामनामम्-नत्वानत्वा, एकान्तरम्-प्रत्यन्तरम् , ईषदीषदूरम् , सव्यापसव्यम्-वामदक्षिणभागम् , सुष्ठुसम्यक्, पश्यन्-अवलोकमानः, स्फुटम्-प्रकाशम् ' स्फुटे स्पष्टं प्रकाशम्' इति हैमः, उभयतः-पार्श्वद्वयतः, चैत्यमालाश्चितेनजिनप्रासादश्रेणीसंवलितेन, तेनैव-पूर्वप्रदर्शितेनैव, पथा-मार्गेण, अवश्यम्-नूनम् , विचरिष्यसि-विहरिष्यसि, // 42 // (43) तत्रास्ति पण्याङ्गनानां प्राचुर्यमिति ततो दूरस्थितये सावथानीयति एकमिति एकश्चैत-दूचनममलं मामकीनं न चित्तादुत्तार्य स्वी-कृतनिजसुह-त्कार्यसिद्धेर्निदानम् // __पण्यस्त्रीणा-मिह हि नगरे सन्निवेशो गरियानास्ते तस्मा-द्धतिमतिहरा-हरमेवाभिगच्छेः॥४३॥ (अन्वयः) मामकीनं स्वीकृतनिजसुहृत्कार्यसिद्धेनिदानम् अमलम् एकम् एतद् वचनं चित्तात् न उत्तार्यम् इह हि नगरे पण्यस्त्रीणां गरीयान् सन्निवेशः आस्ते धृतिमतिहरात् तस्मात् दूरमेव अभिगच्छेः // 43 // ..(प्रकाशः) मामकीनम्-मदीयम् , ममेदं मामकीनम् ‘वा युष्मदमस्दों-' / 6 / 3 / 67 / इति ईनम् ममकादेशश्च, स्वीकृतनिजसुहृत् कार्यसिद्धेर्निदानम्-निजसुहृदः कार्यम् तस्य सिद्धिः