________________ : 62 : कृष्टादपि, दुनोति दुःखेन ईयते गम्यते वा दूरम् ‘खुरक्षुर-' ( उणा० 396 ) इति रे निपात्यते, प्रणतशिरसाम्-अवनतमस्तकानाम् , विहितशिरोऽअलिबद्धप्रणामानामिति यावत् , प्रस्थितानाम्-गच्छताम् , देवदेवप्रणामे-अर्हन्नमस्कारे, प्रयास:प्रयलः, न भवति-नो जायते, / अनुप्रासः // 41 // (42) जिनमन्दिरसमीपवर्तिवर्मनैव त्वयापि गन्तव्यमित्याहतेनैवेति. तेनैवाथ त्वमपि विचरि-प्यस्यवश्यं पथेन्दो !, श्रद्धाशाली स्फुटमुभयत-श्चैत्यमालाश्चितेन // नामं नामं जिनभगवता-माकृतीश्चैत्यसंस्थाः, पश्यन्नेका-न्तरमवहितः सुष्टु सव्यापसव्यम् // 42 // (अन्वयः ) अथ इन्दो ! श्रद्धाशाली अवहितः त्वमपि चैत्यसंस्थाः जिनभगवताम् आकृतीः नामं नामम् एकान्तरं सव्या. पसव्यं सुष्टु पश्यन् स्फुटम् उभयतः चैत्यमालाश्चितेन तेनैव पथा अवश्यं विचरिष्यसि // 42 // - (प्रकाशः) अथ-अनन्तरम् , इन्दो !-चन्द्र !, श्रद्धाशाली-श्रद्धया शालते शोभते इति श्रद्धालुः, आस्तिक इति यावत् , अवहितः-अनन्यचेताः, त्वमपि-श्रीमानपि, चैत्यसंस्था:-विहारनिहिताः, 'चैत्यविहारौ जिनसद्मनि ' इति हैमः, जिनभगवताम्-वीतरागपरमात्मनाम् , आकृतीः-प्रतिमाः, आक्रियते व्यज्य