________________ : 61 : नानाम् , स-स विलम्बः, अन्तःशल्यम्-हृदयदाही, तापकर इति यावत् , न भवति-नो जायते // 40 // (41) कुतः श्रीरोहिणीनगरी दर्शनीयेति चेत्तत्राह-तस्यामिति तस्यां चैकं सुखमुडुपते ! धार्मिकाणां महीयो यच्चैत्यानां शुचिरुचिमता-मस्ति पतिव्यवस्था॥ तन्मध्यस्थे न भवति पथि प्रस्थितानां प्रयासो दूरादेव प्रणतशिरसा देवदेवप्रणामे // 41 // (अन्वयः ) उडुपते ! तस्यां धार्मिकाणाम् एकं महीयः सुखं यत् शुचिरुचिमतां चैत्यानां पतिव्यवस्था अस्ति; तन्मध्यस्थे पथि दूरादेव प्रणतशिरसां प्रस्थितानां देवदेवप्रणामे प्रयासः न भवति // 41 // (प्रकाशः) उडुपते !-पहेश !, तस्याम्-श्रीरोहिणीनगर्याम् , धार्मिकाणाम्-पुण्यभाजाम् , एकम्-अद्वितीयम्, महीयः-महत्तरम् , अतिशयेन महत् महीयः ‘गुणाङ्गाद्वेष्ठेयस्' 173 / 9 / इतीयसुः, ' महतो महीयान् ' इति श्रुतेः, सुखम्शर्म, सौख्यमितियावत् , आस्ते, किं तत् ? इत्याह यदिति, यत्यतः, शुचिरुचिमताम्-धवलकान्तिकलितानाम् , चैत्यानाम्अर्हन्मन्दिराणाम् , चीयते चैत्यम् 'शिक्यास्या-' ( उणा. 364 ) इति ये साधुः, पतिव्यवस्था-श्रेणिशृङ्खला, अस्तिवर्तते, तन्मध्यस्थे पथि-चैत्यालीमध्यवर्तिमार्गे, दरादेव-विप्र