________________ : 60 : (40) प्रेरयतीतः पञ्चयोजनदूरस्थां श्रीरोहिणीं गत्वा द्रष्टुं तस्मादितितस्माजाल-न्धरपुरवरा-दुत्पतन् शीघ्रगामी, श्रीरोहिण्याः परिसरमथ प्राप्स्यसि त्वं निमेषात्। स्थित्वा तत्र क्षणमियमपि पेक्षणीया समन्तान्, नान्तःशल्यं स भवति सतांसार्थको यो विलम्बः।४० ( अन्वयः ) अथ शीघ्रगामी त्वं तस्मात् जालन्धरपुरवरात् उत्पतन् निमेषात् श्रीरोहिण्याः परिसरं प्राप्स्यसि, तत्र क्षणं स्थित्वा इयमपि समन्तात् प्रेक्षणीया (यतः) यः सार्थकः विलम्बः सतां स अन्तःशल्यं न भवति // 40 // (प्रकाशः) अथ-एतदनन्तरम् , शीघ्रगामी-अचिरगन्ता, त्वम्-आयुष्मान् , तस्मात्-पूर्वोपवर्णितात्, जालन्धरपुरवरात्जालन्धराभिधेयश्रेष्ठनगरात् , जालोरपत्तनादितियावत् , उत्पतन्उद्गच्छन् , निमेषात्-नयननिमीलनोन्मीलनमितमात्रसमयेन, क्षणादितियावत् , श्रीरोहिण्याः परिसरम्-श्रीरोहिणीनगर्याः पर्यन्तभुवम् , परितः सरन्ति संचरन्ति अत्र परिसरः 'पुनाम्नि-' 15 / 3 / 130 / इति घः 'पर्यन्तभूः परिसरः स्यात् ' इति हैमः / शिरोहीपुरीसमीपमितियावत् प्राप्स्यसि-उपेष्यसि, तत्र-तदुपपुरम् , क्षणम्-ईषत्कालम् , स्थित्वा-विश्रम्य, इयमपि-असावपि, समन्तात-सर्वतोभावेन, प्रेक्षणीया-निरीक्षणीया, यतः यः-यो विलम्बः, सार्थकः-सप्रयोजनः, विलम्बः-अतिकालः, सताम्-सज्ज