________________ (39) सत्यप्येवं त्वया रमणीयं तन्नगरमवश्यं दर्शनीयमित्याहन प्रस्थेयमिति न प्रस्थेयं तदपि भवताऽ-वीक्ष्य दक्षेक्षणीयं, द्रङ्गं शृङ्गा-रितकुवलयं चित्रसम्पूर्णमेनम् / / विष्वग्दत्त्वा नयनयुगलं सम्यगालोचनीयं, पश्चात्ताप-स्तुदति हृदयं दर्शनीये ह्यदृष्टे // 39 / / ( अन्वयः ) दक्ष ? तदपि भवता ईक्षणीयं शृङ्गारितकुवलयं चित्रसम्पूर्णम् एनं द्रङ्गम् अवीक्ष्य न प्रस्थेयम् (परम् ) विष्वग नयनयुगलं दत्त्वा सम्यग् आलोचनीयं हि दर्शनीये अदृष्टे पश्चात्तापः हृदयं तुदति // 39 // ( प्रकाशः ) दक्ष ! हे चतुर, तदपि-तथापि, भवतात्वया, ईक्षणीयम्-दर्शनीयम्, शृङ्गारितकुवलयम्-भूषितभूमण्डलम् , चित्रसम्पूर्णम्-आश्चर्यसम्भृतम् , अत्यद्भुतमितियावत् , (चित्रं खे तिलकेऽद्भुते' इति हैमानेकार्थसङ्ग्रहः / एनम्पुरःस्थितम् , द्रङ्गम्-नगरम् अवीक्ष्य-अनवलोक्य, न प्रस्थेयम्-नैव गन्तव्यम् , परम् , विष्वग्-परितः, नयनयुगलम्लोचनद्वयम् , दत्वा-निधाय, सम्यग्-समीचीनतया, आलोचनीयम्-विलोकनीयम् , यतः, दर्शनीये-प्रेक्षणीये, मनोरम इति: यावत् , अदृष्टे-लोचनगोचरतामनापादिते, पश्चात्तापः-अनुशयः 'विप्रतिसारोऽनुशयः पश्चात्तापोऽनुतापश्च ' इति हैमः / हृदयम्मानसम् , तुदति-व्यथते / अर्थान्तरन्यासः // 39 //