________________ : 58 : विघ्नो यद्य-प्यभिमृतिकृतां योषिताश्च त्वदीयैज्योत्स्नाजालै-स्तिमिरनिकरे दूरनिर्वासिते स्यात्।३८ (अन्वयः ) यद्यपि आशु ग्लपितनयनाः हस्तविन्यस्तवात्रा विप्रयुक्ताः ( तव ) किरणनिकरैः निर्भरं दूयन्ते चेत्, च यद्यपि स्वदीयैः ज्योत्स्नाजालैः दूरनिर्वासिते तिमिरनिकरे अभिसृतिकृतां योषितां विघ्नः स्यात् // 38 // (प्रकाशः) यद्यपि यदपि, आशु-तत्क्षणमेव, ग्लपितनयना:-क्लमितेक्षणाः, प्रियविरहप्रयुक्तातिरुदितेन ग्लानिमापादितविलोचना इति भावः, हस्तविन्यस्तवक्त्राः-करतलनिहिताननाः, यदुक्तं विरहिणीवर्णने -- करतले लीना कपोलस्थली ' विप्रयुक्ताः-विरहिन्यः, तव किरणनिकरैः-करकलापैः, निर्भरम्अत्यन्तम् , दूयन्ते चेत्-चेत् संतप्यन्ते, च-पुनः, यद्यपि यदपि, त्वदीयैः-तावकीनैः, ज्योत्स्नाजालैः-कौमुदीकदम्बैः, दूरनिर्वासिते-दविष्ठमापादिते, नष्ट इति यावत् , तिमिरनिकरे-अन्धकारनिकुरम्बे, अभिसृतिकृताम्-प्रियतमं सरन्तीनाम् , याति या प्रियं साऽभिसारिका ' इति हैमः तथा च भरतः * हित्वा लज्जाभये श्लिष्टा, मदेन मदनेन वा। अभिसारयते कान्तं, सा भवेदभिसारिका // ' इति, योषिताम्--कामिनीनाम् , विघ्नः-अन्तरायः, विहन्यतेऽनेनास्मिन् वा विघ्नः ' स्थादिभ्यः कः ' / 5 / 3 / 82 / इति कः, - विघ्नेऽन्तरायप्रत्यूहव्यवायाः' इति हैमः। स्यात्-भवेत् , ' चन्द्रे कुलटाचक्राम्बुरुह विरहितमोहाः' इति कविसमयः / स्वभावोक्तिः // 38 //