________________ : 56 : हैमः, वीरवामेयदेवी-श्रीवर्धमानपार्श्वनाथजिनौ, स्नपय-अमृ. ताभिषेकं कुरु, स्ना+णिः 'अतिरी-' / 4 / 2 / 21 / इति पु: ' ज्वलहलहुलग्लास्ना-' / 4 / 2 / 32 / इति ह्रस्वः स्नपय, तदनु चतदनन्तरन्तु, कर्पूराच्छै:-घनसारसारैः, चन्द्रप्रसन्नैरितियावत् , 'कर्पूरो हिमवालुकाघनसारः सिताभ्रश्च चन्द्रः' इति हैम: 'अच्छं प्रसन्ने' इत्यपि हैमः, करैः-किरणरूपहस्तैः, अभ्यर्च्य-प्रपूज्य, पुण्यम्-धर्मम् ‘धर्मः पुण्यं वृषः श्रेयः सुकृते ' इति हैमः, अर्जयसंचिनु, स्वायत्तं सम्पादयेतियावत् / काव्यलिङ्गम् // 36 // (37) . तदुपत्यकास्थितजालन्धरपुरप्रेक्षणाय प्रेरयन्निन्दं तद्वर्णयति तस्येति तस्याधस्तान् नगरमपरः स्वर्ग एवास्ति यस्य, प्रौढेभ्यानां भवन निकरै-वस्तमाना विमानाः / / काप्येकान्ते कृतवसतयः सजलज्जाभिभूता, भूमीपीठा-वतरणविधौ पगुतामाश्रयन्ति // 37 // ( अन्वयः) तस्य अधस्तात् अपरः स्वर्ग एव नगरम् अस्ति यस्य प्रौढेभ्यानां भवननिकरैः ध्वस्तमानाः विमाना: सजलज्जा. भिभूताः क्वापि एकान्ते कृतवसतयः भूमिपीठावतरणविधौ पछुताम् आश्रयन्ति // 37 // (प्रकाशः) तस्य-सुवर्णाचलस्य अधस्तात्-नीचैः प्रदेशे, अपरः-द्वितीयः, स्वर्ग एव-त्रिदशालय एव, नगरम्-पत्तनम् ,