________________ : 55 : ज्योत्स्नाजालैः स्नपयमधुरै-वीरवामेयदेवी, कर्पूराच्छै-स्तदनु च करै-रर्जयाभ्यर्च्य पुण्यम् // 36 // ( अन्वयः ) तत्र क्रीडोपवनसरसीस्वच्छनीरान्तरेषु प्रतिकृतिमिषात् स्वैरं स्नात्वा नव्यधौतांशुकः सन् मधुरैः ज्यो. स्नाजालैः वीरवामेयदेवौ स्नपय तदनु च कर्पूराच्छैः करैः अभ्यर्च्य पुण्यम् अर्जय // 36 // (प्रकाशः ) तत्र-तस्मिन् पर्वते, क्रीडोपवनसरसीस्वच्छनीरान्तरेषु-क्रीडायै उपवनं तत्र सरसी तस्याः स्वच्छनीरं तस्यान्तरेषु, रमणारामसरोवरधवल जलमध्येषु, प्रतिकृतिमिषात-प्रतिबिम्बच्छलेन, स्वैरम्-यथेच्छम् , स्वस्य ईरं स्वैरं 'स्वैरस्वैर्यक्षौहिण्याम् ' / 1 / 2 / 15 / इत्यत्त्वम् , स्नात्वा-स्नानं विधाय, नव्यधौ. तांशुकः सन्-धौतञ्च तदंशुकमत एव नव्यं धौतांशुकं यस्य सः नूतनप्रक्षालित(धौतशब्दस्य भाषाप्रसिद्धधोतीरूपार्थवाचकत्वात्तदपि सूच्यते) किरणरूपोत्तरीयशुभ्राम्बरो भूत्वा, नहि जिनाभ्यर्चना धवलधौतोत्तरीयवसनमन्तरा भवतीति व्यक्तमनेन तद्वयमप्यत्र सम्पादितम् , धावधातोः क्तप्रत्यये ' अनुनासिके च च्छुः शूट ' / 4 / 1 / 108 / इति धुडादिपरे धातोर्वस्य ऊट तथा च ' ऊटा ' / 1 / 2 / 13 / इति अवर्णस्य ऊटा सह औकारे धौतम् , 'अंशुकं श्लक्ष्णवाससि / उत्तरीये वस्त्रमात्रेऽपि' इति हैमानेकार्थसङ्ग्रहः / मधुरै:-मनोहरैः, ज्योत्स्नाजालैः-चन्द्रिकाचयैः, ज्योतिरस्त्यस्यां ज्योत्स्ना -- तमिलार्णवज्योत्स्ना' / 7 / 2 / 52 / इति निपात्यते, ' समूहश्चयः........जालं निवहसञ्चयौ' इति