________________ : 53 : ' दीर्घिका .वापी' इति हैमः, 'अथ स्नानं सवनमाप्लवः' इत्यपि हैमः / मारुतैः-समीरणैः, मरुदेव मारुतः प्रज्ञादित्वादण् , शान्ततापः-विगलितस्वेदः, त्वम्-श्रीमान् , क्षणम्निमेषम्, ईषत्कालमित्यर्थः, तिष्ठ-स्थितिं कुरु, तत्रत्यानाम्तत्पर्वतवासिनाम् , सकलदिवसक्षुद्व्यथापीडितानाम्-सकलश्वासौ दिवसः तत्र या क्षुद्व्यथा तया पीडितानाम्, दिवसमभिव्याप्यबुभुक्षाजनितक्लेशानाम् , चकोराङ्गनानाम्-ज्योत्स्नाप्रियप्रियाणां, चकते ज्योत्स्नया सृप्यति चकोरः ' कठिचकि ' ( उणा० 433 ) इत्योरः 'ज्योत्स्नाप्रिये चलचञ्चु-चकोरविषसूचकाः' इति हैमः, त्वत्किरणकवलैः-भवदीयकौमुदीग्रासैः, सौहित्यम्-तृप्तिः, 'नातिसौहित्यमाचरे' दितिस्मृतिः स्तात्-भवतु, अस् + तुः 'आशिषि तुह्योस्तातङ्' / 4 / 2 / 119 / इति तातङ्' नास्त्योलक् ' / 4 / 2 / 90 / इत्यल्लोपः स्तात् // 34 // _ (35) : तस्मिन् शैलेऽ-न्तिमंजिनवरा-वामवामेयदेवप्रासादौ यौ तरुणकिरणैः सङ्गरं निर्मिमाते / / मध्यस्थः सन् सुघटितरुची तो कुरु प्रायशो यत्, प्रोत्तुङ्गानां भवति महतै-वापनेयो विरोधः // 35 // ( अन्वयः ) तस्मिन् शैले यौ अन्तिमजिनवरावामवामेयदेवप्रासादौ तरुणकिरणैः सङ्गरं निर्मिमाते ( तत्र ) मध्यस्थः सन् तौ सुघटितरुची कुरु, यत् प्रायशः प्रोत्तुङ्गानां विरोधः / महतैव अपनेयो भवति // 35 //