________________ : 52 : अथ त्रिभिः श्लोकैः श्रीयोधनपुरनगरतो नवयोजनदूरस्थितजालन्धरनगरनिकटवर्ति सुवर्णगिरिनामधेयं गिरिराजं वर्णयति तुङ्गे इति / तुङ्गे तिष्ठ क्षणमुडुपते ! त्वं सुवर्णाचलस्य, क्रीडावापी-सवनसरसै-मारुतैः शान्ततापः / / तत्रत्यानां सकलदिवस-क्षुव्यथापीडितानां, सौहित्यं त्वकिरणकवलैः स्ताच्चकोराङ्गनानाम् // 34 // (अन्वयः ) उडुपते ! सुवर्णाचलस्य तुङ्गे ( शृङ्गे ) क्रीडावापीसवनसरसैः मारुतैः शान्ततापः त्वं क्षणं तिष्ठ, तत्रत्यानां सकलदिवसक्षुद्व्यथापीडितानां चकोराङ्गनानां त्वकि रणकवलैः सौहित्यं स्तात् // 34 // (प्रकाशः ) उड्डपते !-नक्षत्रेश !, सुवर्णाचलस्य-तदभिधेयस्य कञ्चनगिरेः, अद्यत्वेऽपि तत्रत्यप्राकारत्रितयप्रमुखप्रभूतप्रेक्ष्यपदार्थप्रकरः प्राचीनगौरवं स्मारयति तथा च श्रूयतेऽभियुक्तोक्तिः'नवनवइलक्खधणवइ-अलद्धवासे सुवण्णगिरिसिहरे; नाहडनिवकालीनं, थुणिमो वीरं जक्ख-वसहीए ) इति / तुङ्गे--उन्नते, अष्टशतकरोच्छूिते, शृङ्गे इति शेषः क्रीडावापीसवनसरसै:क्रीडायै वापी तत्र सवनं तेन सरसैः, विनोददीर्घिकास्नानरुचिरैः, 1 नवनवतिलक्षधनपत्यलब्धवासे सुवर्णगिरिशिखरे / नाहडनृपकालीनं, स्तुमो वीरं यक्षवसतौ॥